2023-05-31 14:43:41 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]जरठः कश्चिज्जालपादोऽदृश्यत । प्रत्यबुध्येतां चोभौ । अथ तस्य राजकुमारस्य कमलमूढशशिकिरणरज्जुदामनिगृहीतमिव रजतशृङ्खलोपगूढं चरणयुगलमासीत् । उपलभ्यैव च 'किमेतत्' इत्यतिपरित्रासविह्वला मुक्तकण्ठमाचक्रन्द राजकन्या । येन च तत्सकलमेव कन्यान्तःपुरमग्निपरीतमिव पिशाचोपहतमिव वेपमानमनिरूप्यमाणतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनितलविप्रविध्यमानगात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोऽवगुण्ठित-
 
पदचन्द्रिका ।
 
इत्यमरः । निगडितः । 'तदस्य संजातं ' ( ५।२।३६ ) इतीतच् । जरठो वृद्धः । जालपादो हंसः । जरठग्रहणमशुभसूचकम् । 'जालपादः श्वेतगरुच्चक्राङ्गो मानसप्रियः 'इति वैजयन्ती । अदृश्यतेति । ताभ्यामर्थादध्याहार्यम् । अथेति । कमलमूढः
कमलत्वेन भ्रान्तो यः शशी तस्य किरणरज्जुदाम समुदायस्तेन निगृहीतमिव । मुक्तकण्ठमुच्चैःस्वरम् । 'स्वरः कण्ठः प्रकीर्तितः' इति रत्नकोशः । आचक्रन्द । 'कदि ऋदि क्लदि आह्वाने रोदने च' इति भ्वादेर्धातोराङ्पूर्वस्य लिटि परस्मैपदे रूपम् ।
येन चेति । 'तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः' इत्यमरः ।
विभागः कृत्यम् । 'कृत्यांशयोर्विभाग: स्यात्' इत्यजयः । तत्काले उत्तरकाले वा किं कर्तव्यमित्यत्र मूढमित्यर्थः । रहस्यमे- कान्तोद्भूतम् । 'आक्रन्दं रोदनं मतम्' । अश्रूणां स्रोत: प्रवाहः । 'स्रोतोऽम्बुसरणं स्वतः' इत्यमरः ।
 
भूषणा ।
 
स्फीतरम्ययोः' इत्यजयः । जरठजालपादो वृद्धहंसः । 'जालपादः श्वेतगरुच्चक्राङ्गो मानसप्रियः' इति वैजयन्ती । कमलमूढः कमलेन भ्रान्तः । कमलसदृश इति यावत् । उपलभ्यानुभूय । 'उपलम्भस्त्वनुभवः' इत्यमरः । मुक्तकण्ठं मुक्तस्वरम् । उच्चैरित्यर्थः । 'कण्ठो गले संनिधाने ध्वनौ मदनपादपे' इति विश्व-
प्रकाशः । येन येन प्रकारेण । तदात्वायतिविभागं तत्कालोत्तरकालयोः कृत्यम् । 'तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः' । 'कृत्यांशयोर्विभाग: स्यात्' इत्यजयः । समयो व्यवस्था । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः ।
 
लघुदीपिका ।
 
रम्ययोः' इत्यजयः। जरठजालपादो वृद्धहंसः । 'जालपादः श्वेतगरुच्चक्राङ्गो मानसप्रियः' इति वैजयन्ती । जरठग्रहणमशुभसूचकम् । कमलमूढः कमलत्वेन
भ्रान्तः । उपलभ्यानुभूय । 'उपलम्भस्त्वनुभवः' । येन येन प्रकारेण । तदात्वायतिविभागं तत्कालोत्तरकालयोः कृत्यम् । 'तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः' । 'कृत्यांशयोर्विभागः स्यात्' इत्यजयः । समयो व्यवस्था ।
 
[^१]G. 'जरठजालपादः'.
६ द० कु०