This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
जैरठः कश्चिज्जालपादोऽदृश्यत । प्रत्यबुध्येतां चोभौ । अथ तस्य
राजकुमारस्य कमलमूढशशिकिरणरज्जुदाम निगृहीतमिव रजत-
शङ्खलोपगूढं चरणयुगलमासीत् । उपलभ्यैव च 'किमेतत्' इत्यति-
परित्रासविहला मुक्तकण्ठमाचक्रन्द राजकन्या । येन च तत्स-
कलमेव कन्यान्तःपुरमग्निंपरीतमिव पिशाचोपहतमिव वेपमानम-
निरूप्यमाणतदात्वायतिविभागमगण्यमानरहस्यरक्षासमयमवनित-
लविप्रविध्यमानगात्रमाक्रन्दविदीर्यमाणकण्ठमश्रुस्रोतोऽवगुण्ठित-
www.
 
पदचन्द्रिका ।
 
इत्यमरः । निगडितः । 'तदस्य संजातं ' ( ५।२।३६ ) इतीतच् । जरठो वृद्धः ।
जालपादो हंसः । जरठग्रहणमशुभसूचकम् । 'जालपादः श्वेतगरुञ्चक्राङ्गो मानसप्रियः '
इति वैजयन्ती । अदृश्यतेति । ताभ्यामर्थादध्याहार्यम् । अथेति । कमलमूढः
कमलत्वेन भ्रान्तो यः शशी तस्य किरणरज्जुदाम समुदायस्तेन निगृहीतमिव ।
मुक्तकण्ठमुच्चैः स्वरम् । 'स्वरः कण्ठः प्रकीर्तितः' इति रत्नकोशः । आचक्रन्द । 'कदि
ऋदि ऋदि आह्वाने रोदने च' इति भ्वादेर्धातोरापूर्वस्य लिटि परस्मैपदे रूपम् ।
येन चेति । 'तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः' इत्यमरः ।
विभागः कृत्यम् । 'कृत्यांशयोर्विभाग: स्यात्' इत्यजयः । तत्काले उत्तरकाले
वा किं कर्तव्यमित्यत्र मूढमित्यर्थः । रहस्यमे कान्तोद्भुतम् । 'आक्रन्दं रोदनं
मतम्' । अश्रूणां स्रोत: प्रवाहः । 'स्रोतोऽम्बुसरणं स्वतः' इत्यमरः ।
भूषणा ।
 
स्फीतरम्ययोः' इत्यजयः । जरठजालपादो वृद्धहंसः । 'जालपादः श्वेतगरुञ्चक्रानो
मानसप्रियः' इति वैजयन्ती । कमलमूढः कमलेन भ्रान्तः । कमलसदृश
इति यावत् । उपलभ्यानुभूय । 'उपलम्भस्त्वनुभवः' इत्यमरः । मुक्तकण्ठं
मुक्तस्वरम् । उच्चैरित्यर्थः । 'कण्ठो गले संनिधाने ध्वनौ मदनपादपे' इति विश्व-
प्रकाशः । येन येन प्रकारेण । तदात्वायतिविभागं तत्कालोत्तरकालयोः कृत्यम् ।
'तत्कालस्तु तदावं स्यादुत्तरः काल आयतिः' । 'कृत्यांशयोर्विभाग: स्यात्' इत्य-
जयः । समयो व्यवस्था । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः ।
लघुदीपिका ।
 
रम्ययोः' इत्यजयः जरठजालपादो वृद्धहंसः । 'जालपादः श्वेतगरुचक्राको
मानसप्रियः' इति वैजयन्ती । जरठग्रहणमशुभसूचकम् । कमलमूढः कमलत्वेन
भ्रान्तः । उपलभ्यानुभूय । 'उपलम्भस्त्वनुभवः' । येन येन प्रकारेण । तदात्वाय-
तिविभाग तत्कालोत्तरकालयोः कृत्यम् । 'तत्कालस्तु तदावं स्यादुत्तरः काल
आयतिः' । 'कृत्यांशयोर्विभागः स्यात्' इत्यजयः । समयो व्यवस्था ।
 
पाठा०-१ 'जरठजालपादः'.
६ द० कु०