2023-05-31 12:00:20 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
५९
 
सस्मितमिदमभाषत – 'दयित, त्वत्प्रसादाद्य मे चरितार्था श्रोत्र-

वृत्तिः । अद्य मे मनसि तमोपहस्त्वया दत्तो ज्ञानप्रदीपः ।
पक्क

पक्व
मिदानीं त्वत्पादपद्मपरिचर्याफलम् । अस्य च त्वत्प्रसादस्य

किमुपकृत्य प्रत्युपकृतवती भवेयम् । अभवदीयं हि नैव किंचि-

न्मत्संबद्धम् । अथवास्त्येवास्यापि जनस्य क्वचित्प्रभुत्वम् । अश-

क्यं हि मदिच्छया विना सरस्वतीमुखग्रहणोच्छेषणीकृतो दे[^१]दशन-
च्छद एष चुम्बयितुम् । अम्बुजासनास्तनतटोपभुक्तमुरःस्थलं
 

 
पदचन्द्रिका ।
 

 

 
'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । सस्मितमिति क्रियाविशेषणम् ।
सहासमित्यर्थः । 'स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्' इत्यमरः । इदं
वक्ष्यमाणम् । अभाषत । 'भाष व्यक्तायां वाचि' । लड्ङ्यात्मनेपदम् । तदेवाह -

दयितेति । चरितार्था । सफलेत्यर्थः । तमोपहोऽज्ञानहन्ता । 'अज्ञानान्धकारयो-
स्तमसी' इति महीधरः । पक्कंवं परिणतम् । परिचर्योपासना । 'परिचर्याप्युपासना'
इत्यमरः । किमुपकृत्य । कमुपकारं कृत्वेत्यर्थः । प्रत्युपकृतवती । कृतप्रत्युपकारे-
त्यर्थः । भवेयमिति । 'भू सत्तायाम्' विधिलिङ् । उत्तमपरस्मैपदैकवचनम् । अभ-
दीयम् । न भवदीयमेवेत्यर्थः । मत्संबद्धम् । मदीयमेवेत्यर्थः । ममैव भवदीयत्वा-
दिति भावः । अथवेति पूर्वापरितोषे । अस्यापि जनस्य मल्लक्षणस्य क्वचित्प्रभुत्व-
मस्त्येव । तदेव विशदयति – अशक्यमिति । मदिच्छया विना । 'पृथग्विना-'
( २।३।३२ ) इति तृतीया । सरस्वत्या मुखग्रहणेनोच्छेषणीकृत उच्छिष्टीकृतः ।

एषः । भवदीय इत्यर्थः । दशनच्छद ओष्टःठ: । 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी'
इत्यमरः । 'उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः' इति स्मृतेः । चुम्बयितुम् ।
णिजन्तम् । अम्बुजासना लक्ष्मीस्तस्याः स्तनतटोपभुक्तमिदमुरःस्थलम् । त्वदीय-

 
भूषणा ।
 

 

 
'वार्ता प्रवृत्तिवृत्तान्तः' इत्यमरः अनेन गान्धर्वविवाहेन परिणीतानां पुण्यवत्त्व-
ज्ञानाद्राजवाहनेन सह गान्धर्वविवाहो मम पुण्यवत्त्वं संपादयेदिति मतिरुत्पन्ना ।
तेन च तस्मिन्राजवाहनेऽतिरागः । अत एव 'त्रिभुवनसर्गयात्रासंहारसंस्थिताभिः
प्रत्यानीयमानरागपूराम्' इति वक्ष्यति । उत्तमाङ्गनावन्तिसुन्दरी नायिका माल-
वेन्द्रतनया । त्वत्प्रसादादेतद्वृत्तान्तकथनरूपात् । चरितार्था । श्रोतव्यश्रवणादिति
भावः । तमोपहोऽभिमतवरलामेभेऽपि कन्यानामात्मदाने न प्रभुत्वमित्येवंरूपाज्ञा-
नापहः । ज्ञानप्रदीपः । गान्धर्वादिभिः परिणीतानां पुण्यश्लोकता । पुण्यकृतां

न जातु पातकं पीडयतीत्येवंरूपं यज्ज्ञानं तदेव प्रदीप इत्यर्थः । एष ते
रदनच्छद ओष्ठश्चुम्बयितुमशक्यमन्येनान्यथा वा प्रेरणं कृत्वा मया चुम्बयि-
तुम् । अम्बुजासना लक्ष्मीः । एतेन विशेषणद्वयेन विष्णुरूपवर्णनाद्भावि सार्व-
पाठा०-

 
[^
]G. 'रदनच्छद'.