2023-05-31 11:19:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

श्रीः ।
दशकुमारचरितम् ।
प्रथमोच्छ्वासः ।
 
श्रुत्वा तु भुवनवृत्तान्तमुत्तमाङ्गना विस्मयविकसिताक्षी
 
पदचन्द्रिका ।
 
श्रुत्वेति । भुवनवृत्तान्तं चतुर्दशभुवनवृत्तान्तम् । पातालवृत्तान्तमित्यप्यर्थः । 'विष्टपं भुवनं जगत्' इत्यमरः । 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यपि । उत्तमाङ्गना नायिका । 'स्त्री योषिदबला' - इत्युपक्रम्य 'विशेषास्त्वङ्गना भीरुः' इत्यमरः । विस्मयेन
विकसिते अक्षिणी लोचने यस्याः सेति । 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः ।
 
भूषणा ।
 
अपर्णया हैमवत्या युक्तः स्थाणुः प्रसीदतु ।
सर्वतापप्रशमनः सर्वाभीष्टफलप्रदः ॥
वृषभानुजया युक्तो देवो हलधरानुजः ।
भूतये भवतो भूयाद्योग्ययोगसुखान्वितः ॥
 
महेशपादाम्बुजसक्तचेता नरेशसंपूजितपादपद्मः ।
ग्रहेशतेजा विरजा महौजास्त्रिलोकचन्द्रोऽजनि स द्विजाग्र्य: ।
सिद्धिर्वचो वृद्धिरलं सुतादीनशिश्रयद्यस्य गृहं समृद्धिः ।
सिद्धिर्मनो बुद्धिरुदारकर्म धर्मप्रसक्तस्य च शर्मराशेः ॥
 
जातः सुतस्तस्य स कृष्णरामो मनोजवस्तस्य सुता अभूवन् ।
तेष्वग्रजः पूज्यपदारविन्दप्रसादवित्तः शिवरामनामा ॥
गोविन्दरामोऽथ मुकुन्दरामो जातः क्रमात्केशवरामसंज्ञः ।
करोमि टीकां निजबन्धुवर्गमुदे मनोज्ञां शिवरामसंज्ञः ॥
 
श्रुत्वेति । भुवनस्य जगतो वृत्तान्तं रुक्मिण्यादिभिः कृष्णस्यैन्द्रस्य गुरोः पितामहस्य शकुन्तलादुष्यन्तादीनां च गान्धर्वविवाहकरणविषयां प्रवृत्तिम् ।
 
लघुदीपिका।
 
अभिवाद्य सहस्रांशुं तमोघ्नं लघुदीपिका ।
कुमाराणां दशानां च चरितस्य प्रकाश्यते ॥
 
श्रुत्वेति । वृत्तान्तः प्रकारः । चन्द्रक इति । 'समौ चन्द्रकमेचकौ' ।