2023-05-31 11:06:52 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पञ्चमोच्छ्वासः
 
] पददीपिकाख्यव्याख्यासहितम् ।
 
सकलमोह-
नानुज्ञातः स संकल्पितार्थसिद्धिसंभावनसंफुल्लवदनः
सकलमोह-
जनकमञ्जनं लोचनयोर्निंनिक्षिप्य परितो व्यलोकयत् । सर्वेषु 'तदैन्द्र-

जालिकमेव कर्म इति साद्भुतं पश्यत्सु रागपल्लवितहृदयेन राज-

वाहनेन पूर्वसंकेतसमागतामनेकभूषणभूषिताङ्गीमवन्तिसुन्दरीं

वैवाहिकमत्रतन्त्रतन्त्रनैपुण्येनाग्निं साक्षीकृत्य संयोजयामास । क्रियाव-

साने सति 'इन्द्रजालपुरुषाः, सर्वे गच्छन्तु भवन्तः' इति द्विज-

न्मनोचैरुच्यमाने सर्वे मायामानवा यथायथमन्तर्भावं गताः ।

राजवाहनोऽपि पूर्वसंकल्पितेन गूढोपायचातुर्येणैन्द्रजालिक पुरुष-

वत्कन्यान्तःपुरं विवेश । मालवेन्द्रोऽपि तदद्भुतं मन्यमानस्तस्मै

वाडवाय प्रचुरतरं धनं दत्त्वा विद्य[^१]विद्येश्वरम् 'इदानीं साधय' इति

विसृज्य स्वयमन्तर्मन्दिरं जगाम । ततोऽवन्तिसुन्दरी प्रियसह-

चरीवरपरिवारा वल्लभोपेता सुन्दरं मन्दिरं ययौ । एवं दैवमानुष-

बलेन मनोरथसाफल्यमुपेतो राजवाहनः सरसमधुरचेष्टाभिः

शनैः शनैर्हरिणलोचनाया लज्जामपनयन्सुरतरागमुपनयन्रहो विश्र-

म्भमुपजनयन्संलापे तदनुलापपीयूषपानलोलश्चित्रचित्रं चित्तहा-

रिणं चतुर्दशभुवनवृत्तान्तं श्रावयामास ॥
 

 
इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽवन्तिसुन्दरीपरिणयो

नाम पञ्चमोच्छ्रावासः ॥
 

 
समाप्तेयं दशकुमारचरितपूर्वपीठिका ।
 
५७
 

 
संकल्पितस्यार्थस्य सिद्धे: संभावना संभवस्तेन फुलं वदनं यस्य सः । इन्द्रजालस्ये-
दमैन्द्रजालिकम् । साद्भुतमिति क्रियाविशेषणम् । पश्यत्सु सत्सु । वैवाहिका विवाह -
संबन्धिनः । तत्राणि नानाविधदेवतोपासनामार्गप्रतिपादका ग्रन्थविशेषाः । अव-

सानमन्तः । इन्द्रजालपुरुषा मायापुरुषाः । अन्तर्भावमदर्शनम् । वाडवाय ब्राह्म-
णाय । साधय गच्छ । दैवं च तन्मानुषं च । पीयूषममृतम् । चित्रचित्रमति-
शयेन चित्रम् । श्रावयामास श्रावयति स्म ।
 

 
 
 
इति
 
श्रीदशकुमारचरितपूर्वपीठिकाव्याख्यायां

पददीपिकायां पञ्चमोच्छ्रावासः ॥
 
पाठा० -

 
[^
]G. 'विद्येश्वर, त्वमिदानीं साधयेति तं विसृज्य'.