This page has not been fully proofread.

पञ्चमोच्छ्वासः
 
] पददीपिकाख्यव्याख्यासहितम् ।
 
सकलमोह-
नानुज्ञातः स संकल्पितार्थसिद्धिसंभावनसंफुल्लवदनः
जनकमञ्जनं लोचनयोर्निंक्षिप्य परितो व्यलोकयत् । सर्वेषु 'तदैन्द्र-
जालिकमेव कर्म इति साद्भुतं पश्यत्सु रागपल्लवितहृदयेन राज-
वाहनेन पूर्वसंकेतसमागतामनेकभूषणभूषिताङ्गीमवन्तिसुन्दरीं
वैवाहिकमत्रतत्रनैपुण्येनाग्निं साक्षीकृत्य संयोजयामास । क्रियाव-
साने सति 'इन्द्रजालपुरुषाः, सर्वे गच्छन्तु भवन्तः' इति द्विज-
न्मनोचैरुच्यमाने सर्वे मायामानवा यथायथमन्तर्भावं गताः ।
राजवाहनोऽपि पूर्वसंकल्पितेन गूढोपायचातुर्येणैन्द्रजालिक पुरुष-
वत्कन्यान्तःपुरं विवेश । मालवेन्द्रोऽपि तदद्भुतं मन्यमानस्तस्मै
वाडवाय प्रचुरतरं धनं दत्त्वा विद्यश्वरम् 'इदानीं साधय' इति
विसृज्य स्वयमन्तर्मन्दिरं जगाम । ततोऽवन्तिसुन्दरी प्रियसह-
चरीवरपरिवारा वल्लभोपेता सुन्दरं मन्दिरं ययौ । एवं दैवमानुष-
बलेन मनोरथसाफल्यमुपेतो राजवाहनः सरसमधुरचेष्टाभिः
शनैः शनैर्हरिणलोचनाया लज्जामपनयन्सुरतरागमुपनयन्रहो विश्र-
म्भमुपजनयन्संलापे तदनुलापपीयूषपानलोलश्चित्रचित्रं चित्तहा-
रिणं चतुर्दशभुवनवृत्तान्तं श्रावयामास ॥
 
इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽवन्तिसुन्दरीपरिणयो
नाम पञ्चमोच्छ्रासः ॥
 
समाप्तेयं दशकुमारचरितपूर्वपीठिका ।
 
५७
 
संकल्पितस्यार्थस्य सिद्धे: संभावना संभवस्तेन फुलं वदनं यस्य सः । इन्द्रजालस्ये-
दमैन्द्रजालिकम् । साद्भुतमिति क्रियाविशेषणम् । पश्यत्सु सत्सु । वैवाहिका विवाह -
संबन्धिनः । तत्राणि नानाविधदेवतोपासनामार्गप्रतिपादका ग्रन्थविशेषाः । अव-
सानमन्तः । इन्द्रजालपुरुषा मायापुरुषाः । अन्तर्भावमदर्शनम् । वाडवाय ब्राह्म-
णाय । साधय गच्छ । दैवं च तन्मानुषं च । पीयूषममृतम् । चित्रचित्रमति-
शयेन चित्रम् । श्रावयामास श्रावयति स्म ।
 
इति
 
श्रीदशकुमारचरितपूर्वपीठिकाव्याख्यायां
पददीपिकायां पञ्चमोच्छ्रासः ॥
 
पाठा० - १ 'विद्येश्वर, त्वमिदानीं साधयेति तं विसृज्य'.