2023-05-31 10:58:31 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
परेद्युः प्रभाते विद्येश्वरो [^१]रसभावरीतिगतिचतुरस्तादृशेन महता
निजपरिजनेन सह राजभवनद्वारान्तिकमुपेत्य दौवारिकनिवेदित-
निजवृत्तान्तः सहसोपगम्य सप्रणामम् 'ऐन्द्रजालिक: समागतः '
इति द्वाःस्थैर्विज्ञापितेन तद्दर्शनकुतूहलाविष्टेन समुत्सुकावरोधस-
हितेन मालवेन्द्रेण समाहूयमानो विद्येश्वरः कक्षान्तरं प्रविश्य
सविनयमाशिषं दत्त्वा तदनुज्ञातः परिजनताड्यमानेषु वाद्येषु
नदत्सु, गायकीषु मदकलकोकिलामञ्जुलध्वनिषु, समधिकरागरञ्जितसामाजिकमनोवृत्तिषु पिच्छिकाभ्रमणेषु, [^२]स परिवाररं परिवृतं भ्रामयन्मुकुलितनयनः क्षणमतिष्ठत् । तदनु विषमं विषमुल्बणं वमन्तः फणालंकरणा रत्नराजिनीराजितराजमन्दिराभोगा भोगिनो भयं जनयन्तो निश्चेरुः । गृध्राश्च बहवस्तुण्डैरहिपतीनादाय दिवि समचरन् । ततोऽग्रजन्मा नरसिंहस्य हिरण्यकशिपोदैत्येश्वरस्य विदारणमभिनीय महदाश्चर्यान्वितं राजानमभाषत – 'राजन्, अवसानसमये भवता शुभसूचकं द्रष्टुमुचितम् । ततः कल्याणपरम्परावाप्तये भवदात्मजाकारायास्तरुण्या निखिललक्षणोपेतस्य
राजनन्दनस्य विवाहः कार्यः' इति । तदवलोकनकुतूहलेन
महीपाले-
मित्त्वाद्ध्रस्व: । परेद्युरन्येद्यु: । प्रभाते प्रातः । रसाः शृङ्गारादयः । भावोऽभिप्रायसूचनम् । रीतिगतय इन्द्रजाल विद्यान्तर्गताः । दौवारिको द्वाःस्थः । अवरोधः शुद्धान्तः । राजस्त्रिय इत्यर्थः । कक्षान्तरमन्यां कक्षाम् । गायक्यो गानकर्त्र्य: स्त्रियः । मदेन कलोऽव्यक्तमधुरस्वनो यः कोकिलस्तद्वन्मञ्जुलो ध्वनिर्यासां तासु
सत्सु । सामाजिकाः सभ्याः प्रेक्षकजनाः । पिच्छिकाः पिच्छगुच्छा: ऐन्द्रजालिकानामुपकरणभूता । एताः । परिवृतं मण्डलाकारम् । 'परिवृढम्' इति पाठे बह्वनेकविधं वेत्यर्थः । मुकुलिते पिहिते ईषदुन्मीलिते वा । उल्बणं तीव्रम् । रत्नानां
शिरःस्थितानामित्यर्थः । राजयः पङ्क्तयस्ताभिर्नीराजितो राजमन्दिरप्रदेशो यैस्ते । भोगिनः सर्पाः । तुण्डैर्मुखैः । अहिपतीन् भोगिश्रेष्ठान् । आदाय गृहीत्वा । दिव्याकाशे । अग्रजन्मा द्विजः । नरसिंहस्य प्रसिद्धविष्णुरूपस्य । विदारणं नखैः पाटनम् ।
अभिनीय भूमिकादिग्रहणेन दर्शयित्वा । महदाश्चर्यान्वितमिति प्रामादिकम् । कल्याणानां परम्परा तस्या अवाप्तिस्तस्यै । आत्मजा दुहिता । निखिलानि सर्वाणि-
[^१]G. 'रसभावगीतिरीतिगति'.
[^२]G. 'सपरिवारं परिवृढम् .
निजपरिजनेन सह राजभवनद्वारान्तिकमुपेत्य दौवारिकनिवेदित-
निजवृत्तान्तः सहसोपगम्य सप्रणामम् 'ऐन्द्रजालिक: समागतः '
इति द्वाःस्थैर्विज्ञापितेन तद्दर्शनकुतूहलाविष्टेन समुत्सुकावरोधस-
हितेन मालवेन्द्रेण समाहूयमानो विद्येश्वरः कक्षान्तरं प्रविश्य
सविनयमाशिषं दत्त्वा तदनुज्ञातः परिजनताड्यमानेषु वाद्येषु
नदत्सु, गायकीषु मदकलकोकिलामञ्जुलध्वनिषु, समधिकरागरञ्जितसामाजिकमनोवृत्तिषु पिच्छिकाभ्रमणेषु, [^२]स परिवा