2023-05-18 02:10:05 by ambuda-bot
This page has not been fully proofread.
५६
दशकुमारचरितम् । [ पूर्वपीठिकायां
परेयुः प्रभाते विद्येश्वरो रैसभावरीतिगतिचतुरस्तादृशेन महता
निजपरिजनेन सह राजभवनद्वारान्तिकमुपेत्य दौवारिकनिवेदित-
निजवृत्तान्तः सहसोपगम्य सप्रणामम् 'ऐन्द्रजालिक: समागतः '
इति द्वाः स्थैर्विज्ञापितेन तद्दर्शनकुतूहलाविष्टेन समुत्सुकावरोधस-
हितेन मालवेन्द्रेण समाहूयमानो विद्येश्वरः कक्षान्तरं प्रविश्य
सविनयमाशिषं दत्त्वा तदनुज्ञातः परिजनताड्यमानेषु वाद्येषु
नदत्सु, गायकीषु मदकलकोकिलामञ्जुलध्वनिषु, समधिकरागरञ्जि-
तसामाजिकमनोवृत्तिषु पिच्छिकाभ्रमणेषु, से परिवार परिवृतं
भ्रामयन्मुकुलितनयनः क्षणमतिष्ठत् । तद्नु विषमं विषमुल्बणं
वमन्तः फणालंकरणा रत्नराजिनीराजितराजमन्दिराभोगा भोगिनो
भयं जनयन्तो निश्चेरुः । गृध्राश्च बहवस्तुण्डैरहिपतीनादाय दिवि
समचरन् । ततोऽग्रजन्मा नरसिंहस्य हिरण्यकशिपोदैत्येश्वरस्य
विदारणमभिनीय महदाश्चर्यान्वितं राजानमभाषत – 'राजन्,
–
अवसानसमये भवता शुभसूचकं द्रष्टुमुचितम् । ततः कल्याण-
परम्परावाप्तये भवदात्मजाकारायास्तरुण्या निखिललक्षणोपेतस्य
राजनन्दनस्य विवाहः कार्यः' इति । तदवलोकनकुतूहलेन महीपाले-
मित्त्वाद्धस्खः । परेधुरन्येषुः । प्रभाते प्रातः । रसाः शृङ्गारादयः । भावोऽभिप्राय-
सूचनम् । रीतिगतय इन्द्रजाल विद्यान्तर्गताः । दौवारिको द्वाःस्थः । अवरोधः
शुद्धान्तः । राजस्त्रिय इत्यर्थः । कक्षान्तरमन्यां कक्षाम् । गायक्यो गानकर्भ्यः
स्त्रियः । मदेन कलोऽव्यक्तमधुरखनो यः कोकिलस्तद्वन्मञ्जुलो ध्वनिर्यासां तालु
सत्सु । सामाजिकाः सभ्याः प्रेक्षकजनाः । पिच्छिकाः पिच्छगुच्छा: ऐन्द्रजालि-
कानामुपकरणभूता । एताः । परिवृतं मण्डलाकारम् । 'परिवृढम्' इति पाठे बहने-
कविधं वेत्यर्थः । मुकुलिते पिहिते ईषदुन्मीलिते वा । उल्बणं तीव्रम् । रत्नानां
शिरः स्थितान/मित्यर्थः । राजयः पङ्कयस्ताभिनीराजितो राजमन्दिरप्रदेशो यैस्ते
भोगिनः सर्पाः । तुण्डैर्मुखैः । अहिपतीन् भोगिश्रेष्ठान् । आदाय गृहीत्वा । दिव्या-
काशे । अग्रजन्मा द्विजः । नरसिंहस्य प्रसिद्धविष्णुरूपस्य । विदारणं नखैः पाटनम् ।
अभिनीय भूमिकादिग्रहणेन दर्शयित्वा । महदाश्चर्यान्वितमिति प्रामादिकम्
कल्याणानां परम्परा तस्या अवाप्तिस्तस्यै । आत्मजा दुहिता । निखिलानि सर्वाणि-
t
पाठा०-१ 'रसभावगीतिरीतिगति'. २ 'सपरिवार परिवृढम् .