This page has not been fully proofread.

पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
'अस्यां लीलावनौ पाण्डुरतानिमित्तं किम् ?' इति साभिप्रायं
विहस्यापृच्छत् । पुष्पोद्भवश्च निजकार्यकरणं तर्कयन्नेनेमादरेण
बभाषे – 'ननु सतां सख्यस्याभाषणपूर्वतयाचिरं रुचिरभाषणो
भवानस्माकं प्रियवयस्यो जातः । सुहृदामकथ्यं च किमस्ति ?
केलीवनेsस्मिन्वसन्त महोत्सवायागताया मालवेन्द्रसुताया राज-
नन्दनस्यास्य चाकस्मिकदर्शनेऽन्योन्यानुरागातिरेकः समजायत ।
सततसंभोगसिद्ध्युपायाभावेनासावीदृशीमवस्थामनुभवति' इति ।
विद्येश्वरो लज्जाभिरामं राजकुमारमुखमभिवीक्ष्य विरचितमन्द-
हासो व्याजहार — 'देव, भवदनुचरे मयि तिष्ठति तव कार्यम-
साध्यं किमस्ति ? अहमिन्द्रजालविद्यया मालवेन्द्रं मोहयन्पौरजन-
समक्षमेव तत्तनयापरिणयं रचयित्वा कन्यान्तःपुरप्रवेशं कारयि-
घ्यामीति वृत्तान्त एष राजकन्यकायै सखीमुखेन पूर्वमेव
कथयितव्यः' इति । संतुष्टमना महीपतिरनिमित्तं मित्रं प्रकटीकृत-
कृत्रिमक्रियापाटवं विप्रलम्भकृत्रिमप्रेमसहजसौहाद्वेदिनं तं विद्ये-
श्वरं सबहुमानं विससर्ज ।
 
अथ राजवाहनो विद्येश्वरस्य क्रियापाटवेन फलितमिव मनो-
रथं मन्यमानः पुष्पोद्भवेन सह स्वमन्दिरमुपेत्य सादरं बालच-
न्द्रिकामुखेन निजवल्लभायै महीसुरक्रियमाणं संगमोपायं वेद-
यित्वा कौतुकाकृष्टहृदयः 'कथमिमां क्षपां क्षपयामि' इत्यतिष्ठत् ।
 
ऐन्द्रजालिकविद्या गारुडम् । कोविदो ज्ञाता । शशंस कथयामास । लीलायाः
क्रीडाया अवनिर्भूमिः । आभाषणं पूर्व यस्मिंस्तत्तस्य भावस्तया । अकथ्यं कथना-
योग्यम् । सततं नित्यं नित्यसंभोगसिद्धिर्यथा भवेत्तथोपायं न लभत इत्यर्थः । लज्ज-
याभिरामं सुन्दरम् । विरचितः कृतः अनिमित्तं निष्कारणम् । प्रकटीकृतं दर्शितं
कृत्रिमक्रियायां पाटवं कुशलत्वं येन तम् । विप्रलम्भं च कृत्रिमप्रेम च सहजसौहार्दं
च वेत्तीति तथा । सबहुमानम् । बहुमानपुरः सरमित्यर्थः ॥
 
अथेति । विद्येश्वरस्यैतन्नामकस्यैन्द्रजालिकस्य क्रियतेऽसौ क्रियमाणः । क्षपां
रात्रिम् । क्षुपयामि नयामि । 'क्षै क्षये' इति धातोर्णिजन्तम् । 'आदेच उपदेशे-'
२६/१/४५ ) इत्यालम् । 'अर्तिही ' ( ७७३ । ३६ ) इत्यादिना पुगागमः
 
- पाठा०-१ 'पुष्पोद्भव श्चैन्द्रजालिके'; 'पुष्पोद्भवश्चैन्द्रजालिक चातुर्यम्'
२ 'एवम्'.