2023-05-30 17:35:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कन्यान्तःपुरप्रवेशः। तदनुरूपमुपायमुपपाद्य श्वः परश्वो वा
नताङ्गीं संगमिष्यामि । मदुदन्तमेवमाख्याय शिरीषकुसुमसुकुमा-
राया यथा शरीरबाधा न जायेत तथाविधमुपायमाचर' इति ।
बालचन्द्रिकापि तस्य प्रेमगर्भितं वचनमाकर्ण्य संतुष्टा कन्यापुरम-
गच्छत् । राजवाहनोऽपि यत्र हृदयवल्लभावलोकनसुखमलभत
तदुद्यानं विरहविनोदाय पुष्पोद्भवसमन्वितो जगाम । तत्र चको-
रलोचनावचितपल्लवकुसुमनिकुरम्बं महीरुहसमूहं शरदिन्दुमुख्या
मन्मथसमाराधनस्थानं च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसैकत-
तलं च सुदतीभुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च
विलोकयँल्ललनातिलकविलोकनवेलाजनितशेषाणि स्मारंस्मारं मन्दमारुतकम्पितानि नवचूतपल्लवानि मदनाग्निशिखा इव चकितो
दर्शंदर्शं मनोजकर्णेजपानामिव कोकिलकीरमधुकराणां क्व- णितानि श्रावंश्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम ।
तस्मिन्नवसरे धरणीसुर एकः सूक्ष्मचित्रनिवसनः स्फुरन्मणि-
कुण्डलमण्डितो मुण्डितमस्तकमानवसमेतश्चतुरवेषमनोरमो यदृ-
च्छया समागतः समन्ततोऽभ्युल्लसत्तेजोमण्डलं राजवाहनमा-
शीर्वादपूर्वकं ददर्श । राजा सादरम् 'को भवान्, कस्यां विद्यायां
निपुणः ?' इति तं पप्रच्छ । स च 'विद्येश्वरनामधेयोऽहमैन्द्रजा-
लिकविद्याकोविदो विविधदेशेषु राजमनोरञ्जनाय भ्रमन्नुज्जयिनी-
मद्यागतोऽस्मि' इति शशंस । पुनरपि राजवाहनं सम्यगालोक्य
 
क्रियैव लता तस्याम् । अलवालमावालम् । 'अळें' इति भाषायाम् । लोचनपथमवर्तत । दृष्टेत्यर्थः । अनुरूपं योग्यम् । उपपाद्य संपाद्य । श्व आगामिनि दिवसे । परश्वस्ततः परस्मिन्दिवसे । प्रेमगर्भितं प्रेमयुक्तम् । चकोराविव लोचने यस्याः सा । हृदयवल्लभेत्यर्थः । निकुरम्बं समूहम् । ललनातिलकशब्देन सैव गृह्यते । स्मारं-
स्मारं स्मृत्वा स्मृत्वा दर्शंदर्शं दृष्ट्वा दृष्ट्वा । कर्णेजपः सूचकः । अलुक्समासः । 'तत्पुरुषे कृति बहुलम्' ( ६ । ३ । १४ ) इति सूत्रम्॥ तस्मिन्निति । धरणीसुरो विप्रः । सूक्ष्मं चित्रं च निवसनं वासो यस्य मां मणिनिर्मिताभ्यां कुण्डलाभ्यां कर्णभूषणाभ्यां मण्डितः शोभितः । मुण्डितं मस्तकं यस्यैतादृशेनापरेण मानवेन समेतो युक्तः । यदृच्छया अकस्मात् । उल्लसत्तेजसां मण्डलं यस्य तम् । आशीर्वादं आशीर्वचनम्, स पूर्वो यस्मिन्यथा तथा ।