2023-05-18 02:10:04 by ambuda-bot
This page has not been fully proofread.
दशकुमारचरितम् ।
[ पूर्वपीठिकायां
कन्यान्तःपुरप्रवेशः
। तदनुरूपमुपायमुपपाद्य श्वः परश्वो वा
नताङ्गीं संगमिष्यामि । मदुदन्तमेवमाख्याय शिरीषकुसुमसुकुमा-
राया यथा शरीरबाधा न जायेत तथाविधमुपायमाचर' इति ।
बालचन्द्रिकापि तस्य प्रेमगर्भितं वचनमाकर्ण्य संतुष्टा कन्यापुरम-
गच्छत् । राजवाहनोऽपि यत्र हृदयवल्लभावलोकनसुखमलभत
तदुधानं विरहविनोदाय पुष्पोद्भवसमन्वितो जगाम । तत्र चको-
रलोचनावचितपल्लवकुसुमनिकुरम्बं महीरुहसमूहं शरदिन्दुमुख्या
मन्मथसमाराधनस्थानं च नताङ्गीपदपङ्किचिह्नितं शीतलसैकत-
तलं च सुदतीमुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतस्पं च
विलोकयँल्ललनातिलकविलोकनवे लाजनितशेषाणि स्मारंस्मारं मन्द-
मारुतकम्पितानि नवचूतपल्लवानि मदनाग्निशिखा इव चकितो
दर्शदर्श मनोजकर्णेजपानामिव कोकिलकीरमधुकराणां कणितानि
श्रावं श्रावं मारविकारेण क्वचिदध्यवस्थातुमसहिष्णुः परिबभ्राम ।
५४
तस्मिन्नवसरे धरणीसुर एकः सूक्ष्मचित्रनिवसनः स्फुरन्मणि-
कुण्डलमण्डितो मुण्डितमस्तक मानवसमेतञ्चतुरवेषमनोरमो यह-
च्छया समागतः समन्ततोऽभ्युल्लसत्तेजोमण्डलं राजवाहनमा-
शीर्वादपूर्वकं ददर्श । राजा सादरम् 'को भवान्, कस्यां विद्यायां
निपुणः ?' इति तं पप्रच्छ । स च 'विद्येश्वरनामधेयोऽहमैन्द्रजा-
लिकविद्याकोविदो विविधदेशेषु राजमनोरञ्जनाय भ्रमन्नुज्जयिनी-
मद्यागतोऽस्मि' इति शशंस । पुनरपि राजवाहनं सम्यगालोक्य
क्रियैव लता तस्याम् । अलवालमावालम् । 'अळें' इति भाषायाम् । लोचनपथमव-
र्तत । दृष्टेत्यर्थः । अनुरूपं योग्यम् । उपपाद्य संपाद्य । श्व आगामिनि दिवसे ।
परश्वस्ततः परस्मिन्दिवसे । प्रेमगर्भितं प्रेमयुक्तम् । चकोराविव लोचने यस्याः सा ।
हृदयवल्लमेत्यर्थः । निकुरम्बं समूहम् । ललनातिलकशब्देन सैव गृह्यते । स्मारं-
स्मारं स्मृला स्मृत्वा दर्शदर्श दृष्ट्वा दृष्ट्वा । कर्णेजपः सूचकः । अलुक्समासः ।
'तत्पुरुषे कृति बहुलम्' ( ६ । ३ । १४ ) इति सूत्रम् ॥
तस्मिन्निति । धरणीसुरो विप्रः । सूक्ष्मं चित्रं च निवसनं वासो यस्य
मां मणिनिर्मिताभ्यां कुण्डलाभ्यां कर्णभूषणाभ्यां मण्डितः शोभितः । मुण्डितं
मस्तकं यस्यैतादृशेनापरेण मानवेन समेतो युक्तः । यदृच्छया अकस्मात् । उल्लसत्ते-
जसां मण्डलं यस्य तम् । आशीर्वाद आशीर्वचनम्, स पूर्वो यस्मिन्यथा तथा !