This page has not been fully proofread.

पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
५३
 
राज-
इति । ततोऽवन्तिसुन्दरीरक्षणाय समयोचितकरणीयचतुरं सखी-
गणं नियुज्य राजकुमारमन्दिरमवाप । पुष्पबाणबाणतूणीरायंमाण-
मानसोऽनङ्गतप्तावयवसंपर्कपरिम्लानपल्लवशयन मधिष्ठितो
चाहनः प्राणेश्वरीमुद्दिश्य सह पुष्पोद्भवेन संलपन्नागतां प्रिय-
वयस्यामालोक्य पादमूलमन्वेषणीया लतेव बालचन्द्रिकागतेति
संतुष्टमना निटिलतटमण्डनीभवदम्बुज कोरकाकृतिलसदञ्जलि-
'पुटाम् 'इतो निषीद' इति निर्दिष्टसमुचितासनासीनामवन्तिसुन्दरी-
प्रेषितं सकर्पूरं ताम्बूलं विनयेन ददतीं तां कोन्तावृत्तान्तमट-
च्छत् । तया सविनयमभाणि – 'देव, क्रीडावने भवदवलोकन-
कालमारभ्य मन्मथमध्यमाना पुष्पतल्पादिषु तापशमनमलभमाना
वामनेनेवोन्नततरुफलमलभ्यं त्वदुरःस्थलालिङ्गनसौख्यं स्मरान्ध-
तया लिप्सुः सा स्वयमेव पत्रिकामालिख्य 'वल्लभायैनामर्पय' इति
मां नियुक्तवती । राजकुमारः पत्रिकां तामादाय पपाठ -
 
'सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपम् ।
मम मानसमभिलषति त्वं चित्तं कुरु तथा मृदुलम् ॥'
इति पठित्वा सादरमभाषत - 'सखि, छायावन्मामनुवर्तमानस्य
पुष्पोद्भवस्य वल्लभा त्वमेव तस्या मृगीदृशो बहिश्चराः प्राणा इव.
वर्तसे । त्वचातुर्यमस्यां क्रियालतायामालवालमभूत् । तदखिलं
करिष्यामि । नताझ्या मन्मनः काठिन्यमाख्यातम् । यदा केलीवने.
कुरङ्गलोचना लोचनपथमवर्तत तदैवापहृतमदीयमानसा सा स्व-
मन्दिरमगात् । सा चेतसो माधुर्यकाठिन्ये स्वयमेव जानाति । दुष्करः
-मेककाले । मुक्तसायकोऽभूद्वेधमकरोत् । अन्वेषणीया महौषधत्वादन्वेषणार्हा ।
निटिलं ललाटम् । वामनो ह्रखाकृतिर्नरः । उन्नत उच्चः । लिप्सुर्लब्धुमिच्छति तथा ।
सुभग सुन्दरेति कोमलामन्त्रणे । कुसुममिव सुकुमारं पेलवम् । जगति अनवर्य.
निर्दोषम् । यथा तव वपुः कोमलं न तथा तव चित्तमिति तद्विषया प्रार्थना । अत
एवाग्र उक्तम् । 'नताझ्या मन्मनःकाठिन्यमाख्यातम्' इति । बहिश्चरन्ति ते ।
त्वं तस्याः प्राणतुल्या । ते प्राणा अन्तर्निवसन्ति, त्वद्रूपा बहिश्चरन्तीत्येव भेदः ।
 
पाठाव- १ 'पादपमूलम्'.
४ 'यत्तवाभीष्टं येन प्रियामनोरथः
कुरङ्गलोचना'.
 
२ 'क्रान्तवृत्तान्तम्'. ३ 'त्वच्चित्तम्'..
फलिष्यति तदुखिलम्' ५ 'गतमना:.
 
·