2023-05-18 02:10:04 by ambuda-bot
This page has not been fully proofread.
दशकुमारचरितम् । [ पूर्वपीठिकायां
हरिचन्दनोशीरघनसारमिलितानि तदभिषेककल्पितानि सलिलानि
बिसतन्तुमयानि वासांसि च नलिनीदुलमयानि तालवृन्तानि च
संतापहरणानि बहूनि संपाद्य तस्याः शरीरमशिशिरयत् । तदपि
शीतलोपचरणं सलिलमिव तप्ततैले तदङ्गे दहनमेव समन्तादावि-
चकार । किंकर्तव्यतामूढां विषण्णां बालचन्द्रिकामीषदुन्मीलितेन
कटाक्षवीक्षितेन बाष्पकणाकुलेन विलोक्य विरहानलोष्णनि:-
श्वासग्लपिताधरया नताझ्या शनैः सगद्दं व्यापि – 'प्रियसखि,
कामः कुसुमायुधः पञ्चबाण इति नूनमसत्यमुच्यते । इयमहमयो-
'मयैरसंख्यैरिषुभिरनेन हन्ये । सखि, चन्द्रमसं वडवानलादति-
तापकरं मन्ये । यदस्मिन्नन्तः प्रविशति शुष्यति पारावारः, सति
निर्गते तदैव वर्धते । दोषाकरस्य दुष्कर्म किं वर्ण्यते मया । यद-
नेन निजेसोदय: पद्मालयाया गेहभूतमपि कमलं विहन्यते । विर-
हानलसंतप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मलयानिलः ।
नवपल्लवकल्पितं तल्प मिमनङ्गाग्निशिखापटलमिव संतापं तनो-
स्तनोति । हरिचन्दनमपि पुरा निजयष्टिसंश्लेषवदुरगरदनलिप्तो-
लवणगरलसंकलितमिव तापयति शरीरम् । तस्मादलमलमायासेन
शीतलोपचारे । लावण्यजितमारो राजकुमार एवागद्कारो मन्मथ -
ज्वरापहरणे । सोऽपि लब्धुमशक्यो मया । किं करोमि' इति ।
बालचन्द्रिका मनोजज्वरावस्थापरमकाष्ठां गतां कोमलाङ्गीं तां राज-
वाहनलावण्याधीनमानसामनन्यशरणामवेक्ष्यात्मन्यचिन्तयत्-
'कुमारः सत्वरमानेतव्यो मया । नो चेनां स्मरणीयां गतिं
नेष्यति मीनकेतनः । तत्रोद्याने कुमारयोरन्योन्यावलोकनवेलाया-
मसमसायकः समं मुक्तसायकोऽभूत् । तस्मात्कुमारानयनं सुकरम्'
सागरान्तर्गताद्वह्नेः । पारावारः समुद्रः । तदैव तस्मिन्नेव काले । दोषा रात्रिस्तां
करोतीति तथा । दोषाणामाकरस्य । सोदरी भगिनी । पद्मालया लक्ष्मीः। गेहूं
गृहम् । निजशब्देन चन्दनग्रहणम् । निजयष्टेः चन्दनकाण्डस्य संश्लेषवन्त आहे-
षिणो ये उरगाः पन्नगास्तेषां रदनेषु दन्तेषु लिप्तं यदुल्बणं तीव्रं गरलं विषं तेन
संकलितं व्याप्तम् । अगदंकारो भिषक् । 'कारे सत्यागदस्य ' ( ६ । ३ । ७० ) इति
मुम् । स्मरणीयां गतिं नेष्यति कधीकृतवपुषं करिष्यति। असमसायको मदनः। सम-
पाठा०-१ 'वाडवानलावू'. २ 'निजसहोदर्या: '.
५२