2023-05-30 16:14:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कन्याकुमारावेवमन्योन्यपुरातनजनननामधेये [^१]परिचिते परस्परज्ञा-
नाय साभिज्ञमुक्त्वा मनोजरागपूर्णमानसौ बभूवतुः ।
तस्मिन्नवसरे मालवेन्द्रमहिषी परिजनपरिवृता दुहितृकेली-
विलोकनाय तं देशमवाप । बालचन्द्रिका तु तां दूरतो विलोक्य
ससंभ्रमं रहस्यनिर्भेदभिया हस्तसंज्ञया पुष्पोद्भवसेव्यमानं राजवा-
हनं वृक्षवाटिकान्तरितगात्रमकरोत् । सा मानसारमहिषी सखी-
समेताया दुहितुर्नानाविधां विहारलीलामनुभवन्ती क्षणं स्थित्वा
दुहित्रा समेता निजागारगमनायोद्युक्ता बभूव । मातरमनुगच्छ-
न्त्यवन्तिसुन्दरी 'राजहंसकुलतिलक, विहारवाञ्छया केलीवने
मदन्तिकमागतं भवन्तमकाण्ड एव विसृज्य मया समुचितमिति
जनन्यनुगमनं क्रियते । तदनेन [^२]भवन्मनोरागोऽन्यथा मा भूत् ।
इति मरालमिव कुमारमुद्दिश्य समुचितालापककलापं वदन्ती पुन:-
पुनः [^३]परिवृत्तदीननयना वदनं विलोकयन्ती निजमन्दिरमगात् ।
तत्र हृदयवल्लभकथाप्रसङ्गे बालचन्द्रिकाकथिततदन्वयनामधेया
मन्मथबाणपतनव्याकुलमानसा विरहवेदनया दिने दिने बहुलपक्ष-
शशिकलेव क्षामक्षामाहारादिसकलं व्यापारं परिहृत्य रहस्यमन्दिरे मलयजरसक्षालितपल्लवकुसुमकल्पिततल्प[^४]तलावर्तितनुलता
बभूव । तत्र तथाविधावस्थामनुभवन्तीं मन्मथानलसंतप्तां सु-
कुमारीं कुमारीं निरीक्ष्य खिन्नो वयस्यागणः काञ्चनकलशसंचितानि
 
इति । मम शापो न त्वां बाधतामित्यर्थः । अमोघतया अनिष्फलतया । जनने जन्मनि । रसेनानुरागेण । निगडितौ बद्धौ । दाक्षिण्यं परच्छन्दानुरोधः ॥
 
तस्मिन्निति । महिषी पट्टाभिषिक्ता । रहस्यं भिद्येदिति भिया । वाटिका गृहोद्यानम् । 'वाटी वास्तौ गृहोद्यानकट्योः' इति हैमः । राजहंसस्य पक्षिविशेषस्य कुले तिलक इव भूषणभूतः । पक्षे राजहंसस्यैतन्नाम्नो राज्ञः कुले तिलक: । अकाण्डे सहसा । आलापकलापं वचनजातम् । बहुलपक्षः कृष्णपक्षः । शशी चन्द्रः । क्षामक्षामा अतिकृशा । मलयजं चन्दनं तस्य
रसेन क्षालिताः पल्लवा: कुसुमानि च तैः कल्पितं तल्पं शय्या तस्य तले 'आवर्तिनी तनुलता यस्याः । उशीरो नलदः, 'वाळा' इति ख्यातः । घनसारः कर्पूरः । अभिषेकः स्नानम् । तालवृन्तानि व्यजनानि । वयस्थाया- गणोऽशिशिरयदिति संबन्धः । दहनमग्निम् । अयोमयैर्लोहनिर्मितैः । इषुभिर्बाणैः । वडवानलात्
 
[^१]G. 'नामधेयपरिचितेः'.
[^२]G. 'भवदनुराग: '.
[^३]G. 'परिवृत्य'.
[^४]G. 'तलायत्त'.