2023-05-30 16:10:12 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
कन्याकुमारावेवमन्योन्यपुरातनजनननामधेये परिचिते परस्परज्ञा-

नाय साभिज्ञमुक्त्वा मनोजरागपूर्णमानसौ बभूवतुः ।
 

तस्मिन्नवसरे मालवेन्द्रमहिपीषी परिजनपरिवृता दुहितृकेली-

विलोकनाय तं देशमवाप । बालचन्द्रिका तु तां दूरतो विलोक्य

ससंभ्रमं रहस्यनिर्भेदभिया हस्तसंज्ञया पुष्पोद्भवसेव्यमानं राजवा-

हनं वृक्षवाटिकान्तरितगात्र मकरोत् । सा मानसारमहिषी सखी-

समेताया दुहितुर्नानाविधां विहारलीलामनुभवन्ती क्षणं स्थित्वा

दुहित्रा समेता निजागारगमनायोद्युक्ता बभूव । मातरमनुगच्छ-

न्त्यवन्तिसुन्दरी 'राजहंसकुलतिलक, विहारवाञ्छया केलीवने

मदन्तिकमागतं भवन्तमकाण्ड एव विसृज्य मया समुचितमिति

जनन्यनुगमनं क्रियते । तद्नेन [^२]भवन्मनोरागोऽन्यथा मा भूत् ।

इति मरालमिव कुमारमुद्दिश्य समुचितालापककलापं वदन्ती पुन:-

पुनः [^३]परिवृत्तदीननयना वदनं विलोकयन्ती निजमन्दिरमगात् ।

तत्र हृदयवल्लभकथाप्रसङ्गे बालचन्द्रिकाकथिततदन्वयनामधेया

मन्मथबाणपतनव्याकुलमानसा विरहवेदनया दिने दिने बहुलपक्ष-

शशिकलेव क्षामक्षामाहारादिसकलं व्यापारं परिहृत्य रहस्य-
मन्दिरे मलयजरसक्षालितपल्लवकुसुमकल्पिततस्पल्प[^४]तलावर्तितनुलता

बभूव । तत्र तथाविधावस्थामनुभवन्तीं मन्मथानलसंतप्तां सु-

कुमारीरीं कुमारीरीं निरीक्ष्य खिन्नो वयस्यागणः काञ्चनकलशसंचितानि

 
इति । मम शापो न त्वां बाधतामित्यर्थः । अमोघतया अनिष्फलतया । जनने
जन्मनि । रसेनानुरागेण । निगडितौ बद्धौ । दाक्षिण्यं परच्छन्दानुरोधः ॥
 

 
तस्मिन्निति । महिषी पट्टाभिषिक्ता । रहस्यं भिद्येदिति भिया । वाटिका
गृहोद्यानम् । 'वाटी वास्तौ गृहोद्यानकट्योः' इति हैमः । राजहंसस्य पक्षि-
विशेषस्य कुले तिलक इव भूषणभूतः । पक्षे राजहंसस्यैतन्नान्म्नो राज्ञः कुले
-तिळ
तिलक: अकाण्डे सहसा । आलापकलापं वचनजातम् । बहुलपक्षः

कृष्णपक्षः । शशी चन्द्रः । क्षामक्षामा अतिकृशा । मलयजं चन्दनं तस्य

रसेन क्षालिताः पलवाःल्लवा: कुसुमानि च तैः कल्पितं तल्पं शय्या तस्य तले
'आवर्तिनी तनुलता यस्याः । उशीरो नलदः, 'वाळा' इति ख्यातः । घनसारः
कर्पूरः । अभिषेकः स्नानम् । तालवृन्तानि व्यजनानि । वयस्थागणोऽशिशिरयदिति
संबन्धः । दहनमग्निम् । अयोमयैर्लोहनिर्मितैः । इषुभिर्बाणैः । वडवानलात्
पाठा० -

 
[^
]G. 'नामधेयपरिचितेः'.
[^
]G. 'भवदनुराग: '.
[^
]G. 'परिवृत्य'.
 

[^
]G. 'तलायत्त'.