This page has not been fully proofread.

५०
 
दशकुमारचरितम् । [ पूर्वपीठिकायां
 
निपुणो राजवाहनः सलीलमलपत्– 'सखि, पुरा शाम्बो नाम
कश्चिन्महीवल्लभो मनोवल्लभया सह विहारवाञ्छया कमलाकर-
मवाप्य तत्र कोकनद्कदम्बसमीपे निद्राधीनमानसं राजहंसं शनै-
गृहीत्वा बिसगुणेन तस्य चरणयुगलं निगडयित्वा कान्तामुखं
सानुरागं विलोकयन्मन्दस्मितविकसितैककपोलमण्डलस्तामभा
षत – 'इन्दुमुखि, मया बद्धो मरालः शान्तो मुनिवदास्ते ।
स्वेच्छयानेन गम्यताम्' इति । सोऽपि राजहंस: शाम्बमशपत्-
'महीपाल, यदस्मिन्नम्बुजखण्डेऽनुष्ठान परायणतया परमानन्देन
तिष्ठन्तं नैष्ठिकं मामकारणं राज्यगर्वेणावमानितवानसि तदेतत्पा-
प्मना रमणीविरहसंतापमनुभव' इति । विषण्णवदनः शाम्बो
जीवितेश्वरी विरहमसहिष्णुर्भूमौ दण्डवत्प्रणम्य सविनयमभाषत --
'महाभाग, यदज्ञानेनाकरवं तत्क्षमस्व' इति । स तापसः करुणा-
कृष्टचेतास्तमवदत् –'राजन्, इह जन्मनि भवतः झापफलाभावो
भवतु । मद्वचनस्यामोघतया भाविनि जनने शरीरान्तरं गताया
अस्याः सरसिजाक्ष्या रसेन रमणो भूत्वा मुहूर्तद्वयं मञ्चरणयुगल-
बन्धकारितया मासद्वयं शृङ्खलानिगडितचरणो रमणीवियोगविषाद-
मनुभूय पञ्चादनेककालं वल्लभया सह राज्यसुखं लभस्ख' इति ।
तदनु जातिस्मरत्वमपि तयोरन्वगृह्णात् । 'तस्मान्मरालबन्धनं न
करणीयं त्वया' इति । सापि भर्तृदारिका तद्वचनाकर्णनाभिज्ञात-
स्वपुरातनजननवृत्तान्ता 'नूनमयं मत्प्राणवल्लभः' इति मनसि
जानती रागपल्लवितमानसा समन्दहासमवोचत् - 'सौम्य, पुरा
शाम्बो यज्ञवतीसंदेशपरिपालनाय तथाविधं हंसबन्धनमकार्षीत् ।
तथा हि लोके पण्डिता अपि दाक्षिण्येनाकार्य कुर्वन्ति' इति ।
 
तपोनिधिर्मुनिः । जातिस्मरत्वं पूर्वजातिस्मरणम् । विधित्सा कर्तुमिच्छा । मरालो
हंसः । महीवल्लभो राजा । कमलाकरः सरः । कोकनदं रक्तोत्पलम् । बिसानां
मृणालतन्तूनां गुणो रज्जुः । तन्निर्मित इत्यर्थः । खण्डे समुदाये । नैष्ठिकं ब्रह्मचा-
रिणम् । पाप्मना पापेन । 'अस्त्री पङ्कं पुमान्पाप्मा' इत्यमरः । शापफलाभाव
 

 
पाठा०-१ 'हासपूर्वम्'.