2023-05-30 15:44:40 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
-
कस्यां पुरि भाग्यवतीनां तरुणीनां लोचनोत्सवः क्रियते ? पुत्ररत्ने-
नामुना पुरन्ध्रीणां पुत्रवतीनां सीमन्तिनीनां का नाम सीमन्त-
मौक्तिकी
इति । ततो बालचन्द्रिका तयो [^१]रन्तरङ्गवृत्तिं भावविवेकैर्ज्ञात्वा
कान्तासमाजसंनिधौ राजनन्दनोदन्तस्य सम्यगाख्यानमनुचितमिति
लोकसाधारणैर्वाक्यैरभाषत – 'भर्तृदारिके, अयं सकलकलाप्रवीणो
देवतासांनिध्यकरण आहवनिपुणो भूसुरकुमारो मणिमन्त्रौषधिज्ञः
परिचर्यार्हो भवत्या पूज्यताम्' इति । तदाकर्ण्य निजमनोरथमनु-
वदन्त्या बालचन्द्रिकया संतुष्टान्तरङ्गा तरङ्गावली मन्दानिलेनेव
संकल्पजेनाकुलीकृता राजकन्या जितमारं कुमारं समुचितासनासीनं
राजवाहनोऽप्येवमचिन्तयत् – 'नूनमेषा पूर्वजन्मनि मे जाया
यज्ञवती । नो चेदेतस्यामेवंविधोऽनुरागो मन्मनसि न जायेत ।
शापावसानसमये तपोनिधिदत्तं जातिस्मरत्वमावयोः समानमेव ।
तथापि कालजनित
तस्मिन्नेव समये कोऽपि मनोरमो राजहंसः केलीविधित्सया
तदुपकण्ठमगमत् । समुत्सुकया राजकन्यया मरालग्रहणे नियुक्तां
बालचन्द्रिकामवलोक्य 'समुचितो वाक्यावसरः' इति संभाषण-
४९
सेति । पुरन्ध्रीणां पतिपुत्रवतीनाम् । 'कुटुम्बिनी
सीमन्तिनी नारी । 'नारी सीमन्तिनी वधूः' इत्यमरः । सीमन्तेति । सीमन्तः
उदन्तो वृत्तान्तः । सांनिध्यकरणो देवतासाक्षात्कारवान् । आहवो युद्धम् । परि
पाठा०-
[^१]G. 'इतरेतररागवृत्तिम्'.
५