This page has not been fully proofread.

पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
-
 
सा मनसीत्थमचिन्तयत् – 'अनन्यसाधारणसौन्दर्येणानेन
कस्यां पुरि भाग्यवतीनां तरुणीनां लोचनोत्सवः क्रियते ? पुत्ररत्ने-
नामुना पुरन्ध्रीणां पुत्रवतीनां सीमन्तिनीनां का नाम सीमन्त-
मौक्तिकी क्रियते ? कास्य देवि ? किमत्रागमनकारणमस्य ? मन्मथो
मामपहसितनिजलावण्यमेनं विलोकयन्तीमसूययेवातिमात्रं मन-
निजनाम सान्वयं करोति । किं करोमि । कथमयं ज्ञातव्यः ?'
इति । ततो बालचन्द्रिका तयोरन्तरङ्गवृत्तिं भावविवेकैर्ज्ञात्वा
कान्तासमाजसंनिधौ राजनन्दनोदन्तस्य सम्यगाख्यानमनुचितमिति
लोकसाधारणैर्वाक्यैरभाषत – 'भर्तृदारिके, अयं सकलकलाप्रवीणो
देवतासांनिध्यकरण आहवनिपुणो भूसुरकुमारो मणिमन्त्रौषधिज्ञः
परिचर्या भवत्या पूज्यताम्' इति । तदाकर्ण्य निजमनोरथमनु-
वदन्त्या बालचन्द्रिकया संतुष्टान्तरङ्गा तरङ्गावली मन्दानिलेनेव
संकल्पजेनाकुलीकृता राजकन्या जितमारं कुमारं समुचितासनासीनं
विधाय सखीहस्तेन सस्तेन गन्धकुसुमाक्षतघनसारताम्बूलादिनाना-
जातिवस्तुनिचयेन पूजां तस्मै कारयामास ।
 
राजवाहनोऽप्येवमचिन्तयत् – 'नूनमेषा पूर्वजन्मनि मे जाया
यज्ञवती । नो चेदेतस्यामेवंविधोऽनुरागो मन्मनसि न जायेत ।
शापावसानसमये तपोनिधिदत्तं जातिस्मरत्वमावयोः समानमेव ।
तथापि कालजनित विशेषसूचकवाक्यैरस्या ज्ञानमुत्पादयिष्यामि ।
तस्मिन्नेव समये कोऽपि मनोरमो राजहंसः केलीविधित्सया
तदुपकण्ठमगमत् । समुत्सुकया राजकन्यया मरालग्रहणे नियुक्तां
बालचन्द्रिकामवलोक्य 'समुचितो वाक्यावसरः' इति संभाषण-
४९
 
सेति । पुरन्ध्रीणां पतिपुत्रवतीनाम् । 'कुटुम्बिनी । पुरन्ध्री' इत्यमरः
सीमन्तिनी नारी । 'नारी सीमन्तिनी वधूः' इत्यमरः । सीमन्तेति । सीमन्तः
केशवेशः । का पुत्रवतीनां धुरि तिष्ठतीति तात्पर्यार्थः । असूयया अक्षमया
निजनामेति । सान्वयमन्वर्थम् । मामप्यनङ्गं करोति किमिति शङ्कते । अन्त-
रङ्गवृत्तिं मनोवृत्तिम् । भावो मानसो विकारः । 'विकारो मनसो भावः' इत्यमरः ।
उदन्तो वृत्तान्तः । सांनिध्यकरणो देवतासाक्षात्कारवान् । आहवो युद्धम् । परि-
चर्या पूजासत्कारः । अनुवदन्त्या सदृशं वदन्त्या । जितो मारः कन्दर्पो येन ।
पाठा०-१ 'इतरेतररागवृत्तिम्'.
 
५५० कु०