2023-05-30 13:20:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कुलविमलशीतलसलिलललितानि सरांसि दर्शंदर्शममन्दलील-
या ललनासमीपमवाप । बालचन्द्रिकया 'निःशङ्कमित आगम्यताम्'
इति हस्तसंज्ञया समाहूतो निजतेजोनिर्जितपुरुहूतो राजवाहनः
कृशोदर्या अवन्तिसुन्दर्या अन्तिकं समाजगाम । या वसन्तस-
हायेन समुत्सुकतया रते: केलीशालभञ्जिकाविधित्सया कंचन नारी-
विशेषं विरच्यात्मनः क्रीडा[^१]कासारशारदारविन्दसौन्दर्येण पाद-
द्वयम्, उद्यानवनदीर्घिकामत्तमरालिकागमनरीत्या लीलालसगति-
विलासम्, तूणीरलावण्येन जङ्घे, लीलामन्दिरद्वारकदलीलालित्येन
मनोज्ञमूरुयुगम्, जैत्ररथचातुर्येण घनं जघनम्, किंचिद्विकसल्लीला-
वतंसकह्लारकोरककोटरानुवृत्त्या गङ्गावर्तसनाभिं नामिभिम्, सौधारो-
हणपरिपाट्या वलित्रयम्, मौर्वीमधुकरपङ्क्तिनीलिमलीलया रोमावलिम्, पूर्णसुवर्णकलशशोभया कुचद्वन्द्वम्, लतामण्डप- सौकुमार्येण बाहू, जयशङ्खाभिख्यया कण्ठम्, [^२]कमनीयकर्णपूरसहकारपल्लवरागेण प्रतिबिम्बीकृतबिम्बं रदनच्छदम्, बाणायमानपुष्पलावण्येन शुचिस्मितम्, अग्रदूतिकाकलकण्ठिकाकलालापमाधुर्येण वचनजातम्,
 
व्याकुलानि व्याप्तानि । विमलान्यकलुषाणि । ललितानि सुन्दराणि । दर्शंदर्शम् । वारंवारं दृष्ट्वेत्यर्थः । णमुल् । निजतेजसा स्वानुभावेन निःशेषं जितः पुरुहूत इन्द्रो येन । कृशमुदरं यस्याः । अवन्तिसुन्दरीति राजनन्दिनीनाम । येति । प्रथमोच्छ्वासे
व्याख्यातत्वादत्र व्याख्यानाद्विरम्यते । विशेषस्तु वक्ष्यते । वसन्तसहायेन कामेन । रतेः कामपत्न्याः केलीशालभञ्जिका क्रीडार्थं निर्मिता पुत्रिका । विधातुं कर्तुमिच्छा
विधित्सा तया । 'सनि मीमाधुघुरभलभ - ( ७१४१५४ ) इत्यच इत्यभ्यासलोपश्च । कासारः सरः । शारदं शरत्संबन्धि । दीर्घिका वापी । मरालिका हंसी । तूणीरो निषङ्गः । लालित्येन सौन्दर्येण । जयनशीलो जैत्रः । किंचिद्विकसन् यो लीलावतंसभूतः कह्लारकोरकस्तस्य कोटरं निष्कुहः । मध्य इति यावत् । अनुवृत्तिः सादृश्यम् । सौधः सुधानिर्मितं शिरोगृहं प्रासादतलं वा । परिपाट्यनुक्रमः । सोपानपङ्क्तिरित्यर्थः । वलीनामुदरस्थानां त्रयम् । मौर्वी ज्या । नीलिमा नीलवम् । रोमावलिं रोमपङ्क्तिम् । पूर्णाः । जलेनेति शेषः । सुवर्णकलशा अनङ्गद्वारदेशस्था मङ्गलसू-
चकाः । अभिख्या शोभा । कमनीयः सुन्दरः । कर्णपूरः कर्णभूषणम् । प्रतिबिम्बीकृतं बिम्बं येनैतादृशः । बिम्बफलमधरनिर्माणात्प्राबिम्बमासीत् । अधुना तु
सत्प्रतिबिम्बं जातम् । बिम्बफलादप्यस्या अधरोष्ठेऽधिको राग इति तात्पर्यम् । रदनच्छदमोष्ठम् । बाणवदाचरति तत् । शुचि शुद्धं शुभ्रं वा । अग्रदूतिका प्रथमदूती
 
[^१]G. 'सारारविन्द'.
[^२]G. 'कामि".