2023-05-30 13:14:23 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
कुलविमलशीतलसलिलललितानि सरांसि दर्शंदर्दर्शममन्दलील-

या ललनासमीपमवाप । बालचन्द्रिकया 'निःशङ्कमित आगम्यताम्'

इति हस्तसंज्ञया समाहूतो निजतेजोनिर्जितपुरुहूतो राजवाहनः

कृशोदर्या अवन्तिसुन्दर्या अन्तिकं समाजगाम । या वसन्तस-

हायेन समुत्सुकतया रते: केलीशालभञ्जिकाविधित्सया कंचन नारी-

विशेषं विरच्यात्मनः क्रीडा[^१]कासारशारदारविन्दसौन्दर्येण पाद-

द्वयम्, उद्यानवनदीर्घिका मत्तमरालिकागमनरीत्या लीलालसगति-

विलासम्, तूणीरलावण्येन जङ्घे, लीलामन्दिरद्वारकदलीलालित्येन

मनोज्ञमूरुयुगम्, जैत्ररथचातुर्येण घनं जघनम्, किंचिद्विकसल्लीला-

वतंसकहाह्लारकोरककोटरानुवृत्त्या गङ्गावर्तसनाभिं नामिम्, सौधारो-

हणपरिपाट्या वलित्रयम्, मौर्वीमधुकरपकिङ्क्तिनीलिमलीलया रोमाव-
लिम्, पूर्णसुवर्णकलशशोभया कुचद्वन्द्वम्, लतामण्डप सौकुमार्येण
बाहू, जयशङ्खाभिख्यया कण्ठम्, कै[^२]कमनीयकर्णपूरसहकारपल्लव-
रागेण प्रतिबिम्बीकृतबिम्बं रदनच्छदम्, बाणायमान पुष्पलावण्येन
शुचिस्मितम्, अग्रदूतिकाकलकण्ठिकाकलालापमाधुर्येण वचनजातम्,

 
व्याकुलानि व्याप्तानि । विमलान्यकलुषाणि । ललितानि सुन्दराणि । दर्शंदर्दर्शम् ।
चा
म् । वारंवारं दृष्ट्वेत्यर्थः । णमुल् । निजतेजसा खास्वानुभावेन निःशेषं जितः पुरुहूत इन्द्रो
येन । कृशमुदरं यस्याः । अवन्तिसुन्दरीति राजनन्दिनीनाम । येति । प्रथमोच्छ्वासे

व्याख्यातत्वादत्र व्याख्यानाद्विरम्यते । विशेषस्तु वक्ष्यते । वसन्तसहायेन कामेन ।
रतेः कामपत्न्याः केलीशालभञ्जिका क्रीडार्थं निर्मिता पुत्रिका । विधातुं कर्तुमिच्छा

विधित्सा तया । 'सनि मीमाधुरभलभ - ( ७१४१५४ ) इत्यच इत्यभ्यासलोपश्च ।
कासारः सरः । शारदं शरत्संबन्धि । दीर्घिका वापी । मरालिका हंसी । तूणीरो
निषङ्गः । लालित्येन सौन्दर्येण । जयनशीलो जैत्रः । किंचिद्विकसन् यो लीलावतंस
भूतः कह्लारकोरकस्तस्य कोटरं निष्कुहः । मध्य इति यावत् । अनुवृत्तिः सादृश्यम् ।
सौधः सुधानिर्मितं शिरोगृहं प्रासादतलं वा । परिपाट्यनुक्रमः । सोपानपङ्किर-
क्तिरित्यर्थः । वलीनामुदरस्थानां त्रयम् । मौवींर्वी ज्या । नीलिमा नीलवम् । रोमावलिं
रोमपङ्किक्तिम् । पूर्णाः । जलेनेति शेषः । सुवर्णकलशा अनङ्गद्वारदेशस्था मङ्गलसू-

चकाः । अभिख्या शोभा । कमनीयः सुन्दरः । कर्णपूरः कर्णभूषणम् । प्रतिबि-
म्बीकृतं बिम्बं येनैतादृशः । बिम्बफलमधरनिर्माणात्प्राबिम्बमासीत् । अधुना तु

सत्प्रतिबिम्बं जातम् । बिम्बफलादप्यस्या अधरोष्ठेऽधिको राग इति तात्पर्यम् । रद-
नच्छदमोष्ठम् । बाणवदाचरति तत् । शुचि शुद्धं शुभंभ्रं वा । अप्ग्रदूतिका प्रथमदूती
पाठा०-

 
[^
"]G. 'सारारविन्द'.
[^
]G. 'कामि".
 
४७