2023-05-30 12:30:29 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

एवं मित्रवृत्तान्तं निशम्याम्लानमानसो राजवाहनः स्वस्य च
सोमदत्तस्य च वृत्तान्तमस्मै निवेद्य सोमदत्तम् 'महाकालेश्वरारा-
धनानन्तरं भवद्वल्लभां सपरिवारां निजकटकं प्रापय्यागच्छ' इति
नियुज्य पुष्पोद्भवेन सेव्यमानो भूस्वर्गायमानमवन्तिकापुरं विवेश ।
तत्र 'अयं मम स्वामिकुमार : ' इति बन्धुपालादये बन्धुजनाय
कथयित्वा तेन राजवाहनाय बहुविधां सपर्यां कारयन्सकलकला-
कुशलो महीसुरवर इति पुरि प्रकटयन्पुष्पोद्भवोऽमुष्य राज्ञो [^१]मज्जनभोजनादिकमनुदिनं स्वमन्दिरे कारयामास ।
 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते पुष्पोद्भवचरितं नाम चतुर्थ उच्छ्वासः ।
 
पञ्चमोच्छ्वासः ।
 
अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुहनिरन्तरावा-
सिभुजंगमभुक्तावशिष्टेनेव सूक्ष्मतरेण [^२]घृतहरिचन्दनपरिमलभरेणेव मन्दगतिना दक्षिणानिलेन वियोगिहृदयस्थं मन्मथानलमुज्ज्वलयन्, सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां मधुकर-
कलकण्ठानां काकलीकलकलेन दिक्चक्रं वाचालयन् , मानिनी-
 
एवमिति । निजकटकं स्वावासस्थानम् । भुवि स्वर्ग इव भवति तम् । सपर्यां पूजां सत्कारं वा । महीसुरवरो द्विजश्रेष्ठः । प्रकटयन्प्रथयन् । मज्जनं स्नानम् । अनुदिनं दिवसे दिवसे ॥
 
इति श्रीदशकुमारचरितपूर्वपीठिकाव्याख्यायां
पददीपिकायां चतुर्थ उच्छ्रासः ॥
 
अथेति ॥ मीनो मत्स्यः केतनो ध्वजो यस्य । काम इत्यर्थः । तस्य सेनाया नायकोऽङ्गवीरः । सेनापतिरित्यर्थः । दक्षिणानिलस्यात्युद्दीपकत्वान्नायक इत्युक्तिः ।
मलय एतत्संज्ञको दक्षिणदेशवर्ती कोऽपि गिरिः । महीरुहा वृक्षाः । निरन्तरमन्तरेण विना । निबिडमित्यर्थः । भुजंगमैः सर्पै: । सर्पा वाताशिन इत्यनिलस्य भुक्तत्वम् । अनिलः सूक्ष्मतरोऽल्पोऽतीव मन्दः । मन्दत्वे पूर्वपदं हेतुः । एवमुत्तरत्रापि धृतहरीति मन्दगतित्वे हेतुभूतम् । परिमल आमोदः । यो भाराक्रान्तः
स मन्दं यातीति स्वभावोक्तिः । अनिलो वायुः । वियोगिनो विरहिणः । मन्मथानलं कामाग्निम् । उज्ज्वलयन् दीप्तं कुर्वन् । उज्वलयन् वाचालयन्नित्या-
 
[^१]G. 'अञ्जन'.
[^२]G. 'धूतहरिचन्दन'.