2023-05-18 02:10:01 by ambuda-bot
This page has not been fully proofread.
पञ्चमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
एवं मित्रवृत्तान्तं निशम्याम्लानमानसो राजवाहनः स्वस्य च
सोमदत्तस्य च वृत्तान्तमस्मै निवेद्य सोमदत्तम् 'महाकालेश्वरारा-
धनानन्तरं भवद्वल्लभां सपरिवारां निजकटकं प्रापय्यागच्छ' इति
नियुज्य पुष्पोद्भवेन सेव्यमानो भूस्वर्गायमानमवन्तिकापुरं विवेश ।
तत्र 'अयं मम स्वामिकुमार : ' इति बन्धुपालादये बन्धुजनाय
कथयित्वा तेन राजवाहनाय बहुविधां सपर्या कारयन्सकलकला-
कुशलो महीसुरवर इति पुरि प्रकटयन्पुष्पोद्भवोऽमुष्य राज्ञो मंज-
नभोजनादिकमनुदिनं स्वमन्दिरे कारयामास ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते पुष्पोद्भवचरितं नाम चतुर्थ उच्छ्वासः ।
पञ्चमोच्छ्रासः ।
अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुह निरन्तरावा-
सिभुजंगमभुक्तावशिष्टेनेव सूक्ष्मतरेण घृतहरिचन्दनपरिमलभरे-
णेव मन्दगतिना दक्षिणानिलेन वियोगिहृदयस्थं मन्मथानलमु-
ज्वलयन्, सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां मधुकर-
कलकण्ठानां काकलीकलकलेन दिक्चक्रं वाचालयन, मानिनी-
एवमिति । निजकटकं स्वावासस्थानम् । भुवि स्वर्ग इव भवति तम् । सपर्या
पूजां सत्कारं वा । महीसुरवरो द्विजश्रेष्ठः । प्रकटयन्प्रथयन् । मज्जनं स्नानम् ।
अनुदिनं दिवसे दिवसे ॥
इति श्रीदशकुमारचरितपूर्वपीठिकाव्याख्यायां
पद्दीपिकायां चतुर्थ उच्छ्रासः ॥
अथेति ॥ मीनो मत्स्यः केतनो ध्वजो यस्य । काम इत्यर्थः । तस्य सेनाया
नायकोऽङ्गवीरः । सेनापतिरित्यर्थः । दक्षिणानिलस्यात्युद्दीपकत्वान्नायक इत्युक्तिः ।
मलय एतत्संज्ञको दक्षिणदेशवर्ती कोऽपि गिरिः । महीरुहा वृक्षाः । निरन्तरम-
न्तरेण विना । निबिडमित्यर्थः । भुजंगमैः सर्वैः । सर्पा वाताशिन इत्यनिलस्य
भुक्तत्वम् । अनिलः सूक्ष्मतरोऽल्पोऽतीव मन्दः । मन्दत्वे पूर्वपदं हेतुः । एवमु-
त्तरत्रापि धृतहरीति मन्दगतिले हेतुभूतम् । परिमल आमोदः । यो भाराकान्तः
स मन्दं यातीति स्वभावोक्तिः । अनिलो वायुः । वियोगिनो विरहिणः ।
मन्मथानलं कामाग्निम् । उज्ज्वलयन् दीप्तं कुर्वन् । उज्वलयन् वाचालयन्नित्या-
पाठा० - १ 'अञ्जन'. २ 'धूतहरिचन्दन'.