2023-05-29 18:30:57 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मणिमयमण्डनानि सूक्ष्माणि चित्रवस्त्राणि कस्तूरिकामिलितं हरि-
चन्दनं कर्पूरसहितं ताम्बूलं सुरभीणि [^१]कुसुमानीत्यादिवस्तुजातं
समर्प्य मुहूर्तद्वयमात्रं हासवचनैः संलपन्नतिष्ठत् । ततो रागान्ध-
तया [^२]सुमुखीकुचग्रहणे मतिं व्यधत्त । रोषारुणितोऽहमेनं पर्यङ्कतलान्निःशङ्को निपात्य मुष्टिजानुपादाघातैः प्राहरम् । नियुद्धरभसविकलमलंकारं पूर्ववन्मेलयित्वा भयकम्पितां नताङ्गीमुपलालयन्मन्दिराङ्गणमुपेतः साध्वसकम्पित इवोच्चैरकूजमहम् –'हा, बालचन्द्रिकाधिष्ठितेन घोराकारेण यक्षेण दारुवर्मा निहन्यते । सहसा समागच्छत । पश्यतेमम्' इति । तदाकर्ण्य मिलिता जनाः समुद्यद्बाष्पा हाहानिनादेन दिशो बधिरयन्तः 'बालचन्द्रिकामधिष्ठितं यक्षं बलवन्तं शृण्वन्नपि दारुवर्मा मदान्धस्तामेवायाचत । तदसौ स्वकीयेन कर्मणा निहतः । किं तस्य विलापेन ?' इति मिथो लपन्तः प्राविशन् । कोलाहले तस्मिंश्चटुललोचनया सह नैपुण्येन सहसा निर्गतो निजावासमगाम् । ततो गतेषु कतिपयदिनेषु पौरजनसमक्षं सिद्धादेशप्रकारेण विवाह्य तामिन्दुमुखीं पूर्वसंकल्पितान्सुरतविशेषान्यथेष्ट [^३]मन्वभूवम् । बन्धुपालशकुननिर्दिष्टे दिवसेऽस्मिन्निर्गत्य पुराद्बहिर्वर्तमानो नेत्रोत्सवकारि भवदवलोकनसुखमप्यनुभवामि' इति ।
 
तामसी रात्रिः । एवमेवामरः । तस्यामनवलोकितो न दृष्टः पुंभावः पुंस्त्वं यस्य तस्मै । चामीकरं सुवर्णम् । 'चामीकरं जातरूपम्' इत्यमरः । मणयश्च तेषां विकाराः चामीकरमयानि मण्डनान्यलंकारान् । चित्राणि रमणीयानि । मुहूर्तो द्वादशक्षणावधिः कालः । 'क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्' इत्यमरः । कुचः स्तनः । नियुद्धं बाहुयुद्धम् । 'नियुद्धं बाहुयुद्धेऽथ' इत्यमरः । मेलयित्वा स्थाने स्थाने पर्यवस्थाप्य । उपलालयन्सान्त्वयन् । अङ्गणमजिरम् । साध्वसं भयम् । अकूजम्
आक्रोशं कृतवान् । घोर आकारो यस्य । समुद्यन्ति बाष्पाणि येषां ते । हाहानिनादेन हाहा इति शब्देन । 'शब्दे निनादनिनद-' इत्यमरः । दिशो बधिरयन्त उच्चैराक्रोशन्तः । चटुले चञ्चले ।
 
 
[^१]G. 'कुसुमानि ललितं वस्तुजातम्'.
[^२]G. 'सुमुख्यालिङ्गने', 'सुमुखीकचग्रहणे'.
[^३]G. 'अन्वभवम्'.