This page has not been fully proofread.

दशकुमारचरितम् । [पूर्वपीठिकायां
 
मणिमयमण्डनानि सूक्ष्माणि चित्रवस्त्राणि कस्तूरिकामिलितं हरि-
चन्दनं कर्पूरसहितं ताम्बूलं सुरभीणि कुंसुमानीत्यादिवस्तुजातं
समर्थ मुहूर्तद्वयमात्रं हासवचनैः संलपन्नतिष्ठत् । ततो रागान्ध-
तया सुमुखीकुचग्रहणे मतिं व्यधत्त । रोषारुणितोऽहमेनं पर्यङ्क-
तलान्निःशङ्को निपात्य मुष्टिजानुपादाघातैः प्राहरम् । नियुद्धरभस-
विकलमलंकारं पूर्ववन्मेलयित्वा भयकम्पितां नताङ्गीमुपलालयन्म-
न्दिराङ्गणमुपेतः साध्वसकम्पित इवोचैरकूजमहम् –'हा, बालच-
न्द्रिकाधिष्ठितेन घोराकारेण यक्षेण दारुवर्मा निहन्यते । सहसा
समागच्छत । पश्यतेमम्' इति । तदाकर्ण्य मिलिता जनाः समु-
द्यद्वाष्पा हाहानिनादेन दिशो बधिरयन्तः 'बालचन्द्रिकामधिष्ठितं
यक्षं बलवन्तं शृण्वन्नपि दारुवर्मा मदान्धस्तामेवायाचत । तदसौ
स्वकीयेन कर्मणा निहतः । किं तस्य विलापेन ?' इति मिथो लपन्तः
प्राविशन् । कोलाहले तस्मिंश्चटुललोचनया सह नैपुण्येन सहसा
निर्गतो निजावासमगाम् । ततो गतेषु कतिपयदिनेषु पौरजनस-
मक्षं सिद्धादेशप्रकारेण विवाह्य तामिन्दुमुखीं पूर्वसंकल्पितान्सु -
रतविशेषान्यथेष्टमन्वभूवम् । बन्धुपालशकुननिर्दिष्टे दिवसेऽस्मि -
निर्गत्य पुराद्वहिर्वर्तमानो नेत्रोत्सवकारि भवदवलोकनसुखमध्य-
नुभवामि' इति ।
 
४४
 
-
 
तामसी रात्रिः । एवमेवामरः । तस्यामनवलोकितो न दृष्टः पुंभावः पुंस्त्वं यस्य
तस्मै । चामीकरं सुवर्णम् । 'चामीकरं जातरूपम्' इत्यमरः । मणयश्च तेषां
विकाराः चामीकरमयानि मण्डनान्यलंकारान् । चित्राणि रमणीयानि । मुहूर्तो द्वाद-
शक्षणावधिः कालः । 'क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्' इत्यमरः । कुचः स्तनः ।
नियुद्धं बाहुयुद्धम् । 'नियुद्धं बाहुयुद्धेऽथ' इत्यमरः । मेलयिला स्थाने स्थाने पर्यव-
स्थाप्य । उपलालयन्सान्त्वयन् । अङ्गणमजिरम् । साध्वसं भयम् । अकूजम्
आक्रोशं कृतवान् । घोर आकारो यस्य । समुयन्ति बाष्पाणि येषां ते । हाहानिना-
देन हाहा इति शब्देन । 'शब्दे निनादनिनद-' इत्यमरः । दिशो बधिरयन्त
उच्चैराक्रोशन्तः । चटुले चञ्चले ।
 
vide
 
पाठा०-१ 'कुसुमानि ललितं वस्तुजातम्'. २ 'सुमुख्यालिङ्गने', 'सुमुखी-
कचग्रहणे'. ३ 'अन्वभवम्'.