2023-05-29 18:10:13 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
।
यूने मह्यं त्वां दास्यन्त्येव । दारुवर्मणो मारणोपायं तेभ्यः कथ-
यित्वा तेषामुत्तरमाख्येयं मह्यम्' इति । सापि किंचिदुत्फुल्लसर-
सिजानना मामब्रवीत् – 'सुभग, क्रूरकर्माणं दारुवर्माणं भवानेव
हन्तुमर्हति । तस्मिन्हते सर्वथा युष्मन्मनोरथः फलिष्यति । एवं
क्रियताम् । भवदुक्तं सर्वमहमपि तथा करिष्ये' इति मामसकृ-
द्विवृत्तवदना विलोकयन्ती मन्दमन्दमगारमगात् । अहमपि
बन्धुपालमुपेत्य शकुनज्ञात्तस्मात् 'त्रिंशद्दिवसानन्तरमेव भवत्सङ्गः
संभविष्यति' इत्यशृणवम् । तदनु मदनुगम्यमानो बन्धुपालो
निजावासं प्रविश्य मामपि निलयाय विससर्ज । मन्मायोपायवा-
गुरापाशलग्नेन दारुवर्मणा रतिमन्दिरे रन्तुं समाहूता बालचन्द्रिका
तं गमिष्यन्ती दूतिकां मन्निकटमभिप्रेषितवती । अहमपि मणिनू-
पुरमेखलाकङ्कणकटकताटङ्कहारक्षौमकज्जलं वनितायोग्यं मण्डन
प्रतीहारभूमिमगमत् । विवेकशून्यमतिरसौ रागातिरेकेण
रत्नखचितहेमपर्यङ्के हंसतूलगर्भशयनमानीय तरुणीं तस्यै मह्यं
तमिस्रासम्यगनवलोकितपुंभावाय मनोरमस्त्रीवेषाय च चामीकर-
४३
वंशसंप
टम् । मम मायोपायः कपटयुक्तिः स एव वागुरा बन्धनं तस्याः पाशल