This page has not been fully proofread.

चतुर्थोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 

 
सर्वथास्मत्परिणयकरणे ताननुनयेः । तेऽपि वंशसंपल्लावण्याढ्याय
यूने मह्यं त्वां दास्यन्त्येव । दारुवर्मणो मारणोपायं तेभ्यः कथ-
यित्वा तेषामुत्तरमाख्येयं मह्यम्' इति । सापि किंचिदुत्फुल्लसर-
सिजानना मामब्रवीत् – 'सुभग, क्रूरकर्माणं दारुवर्माणं भवानेव
हन्तुमर्हति । तस्मिन्हते सर्वथा युष्मन्मनोरथः फलिष्यति । एवं
क्रियताम् । भवदुक्तं सर्वमहमपि तथा करिष्ये' इति मामसकृ-
द्विवृत्तवदना विलोकयन्ती मन्दमन्दमगारमगात् । अहमपि
बन्धुपालमुपेत्य शकुनज्ञात्तस्मात् 'त्रिंशदिवसानन्तरमेव भवत्सङ्गः
संभविष्यति' इत्यशृणवम् । तदनु मदनुगम्यमानो बन्धुपालो
निजावासं प्रविश्य मामपि निलयाय विससर्ज । मन्मायोपायवा-
गुरापाशलग्नेन दारुवर्मणा रतिमन्दिरे रन्तुं समाहूता बालचन्द्रिका
तं गमिष्यन्ती दूतिकां मन्निकटमभिप्रेषितवती । अहमपि मणिनू-
पुरमेखलाकङ्कणकटकताटङ्कहारक्षौमकज्जलं वनितायोग्यं मण्डन-
जातं निपुणतया तत्तत्स्थानेषु निक्षिप्य सम्यगङ्गीकृतमनोज्ञवेषो
वल्लभया तया सह तदागारद्वारोपान्तमगच्छम् । द्वाःस्थकथिता-
स्मदागमनेन सादरं विहिताभ्युद्गतिना तेन द्वारोपान्तनिवारिताशेष-
परिवारेण मदन्विता बालचन्द्रिका संकेतागारमनीयत । नगर-
व्याकुलां यक्षकथां परीक्षन्नागरिकजनोऽपि कुतूहलेन दारुवर्मणः
प्रतीहारभूमिमगमत् । विवेकशून्यमतिरसौ रागातिरेकेण
रत्नखचितहेमपर्यङ्के हंसतूलगर्भशयनमानीय तरुणीं तस्यै मह्यं
तमिस्रासम्यगनवलोकितपुंभावाय मनोरमस्त्रीवेषाय च चामीकर-
४३
 
वंशसंपञ्च लावण्यं च ताभ्यामाढ्याय युक्ताय संपन्नाय वा । सरसिजं कमलम् ।
अलुक्समासः । विवृत्तं परावृत्तं वदनं मुखं यस्याः सा । अगारं गृहम् । निलयाय ।
गृहं गन्तुमित्यर्थः । 'तुमर्थाच्च भाववचनात् ' (२।३।१५ ) इति चतुर्थी । माया कप-
टम् । मम मायोपायः कपटयुक्तिः स एव वागुरा बन्धनं तस्याः पाशलमेन । नूपुरो
मञ्जीरः पादभूषणम् । मेखला काञ्चीदाम कटिभूषणम् । कङ्कणं कटकं च हस्त-
भूषणे । ताटङ्कं कर्णभूषणम् । क्षौमं दुकूलम् । तत्तत्स्थानेषु योग्यस्थानेषु । विहिता-
भ्युद्गतिर्यैन । नगरव्याकुलां पुरप्रसृताम् । परीक्षन्निति प्रयोगप्रमादः, परीक्षमाण इति
वक्तव्यम् । कुतूहलेन कौतुकेन । प्रतीहारभूमिं द्वारप्रदेशम् । विवेकेन शून्या रहिता
मतिर्यस्य । हेम सुवर्णम् । पर्यङ्कः खट्वा । हंसतूलो गर्ने शयनं यस्य तम् । तमिस्रा