2023-05-29 17:22:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शासनमतिक्रम्य पारदार्यपरद्रव्यापहरणादि दुष्कर्म कुर्वाणो
मन्मथसमानस्य भवतो लावण्यायत्तचित्तां मामेकदा विलोक्य
कन्यादूषणदोषं दूरीकृत्य बलात्कारेण रन्तुमुद्युङ्के । तच्चिन्तया
दैन्यमगच्छम्' इति । तस्या मनोगतम्, मयि रागोद्रेकम्, मन्म-
नोरथसिध्यन्तरायं च निशम्य बाष्पपूर्णलोचनां तामाश्वास्य दारु -
वर्मणो मारणोपायं च विचार्य वल्लभामवोचम् – 'तरुणि, भव-
दभिलाषिणं दुष्टहृदयमेनं निहन्तुं मृदुरुपायः कश्चिन्मया चिन्त्यते ।
यक्षः कश्चिदधिष्ठाय बालचन्द्रिकां निवसति । तदाकारसंपदा-
शालितहृदयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तं यक्षं
निर्जित्य तयैकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय
कुशली निर्गमिष्यति, तेन चक्रवाकसंशयाकारपयोधरा विवाह-
नीयेति सिद्धेनैकेनावादीति पुरजनस्य पुरतो भवदीयैः सत्य-
वाक्यैर्जनैरसकृत्कथनीयम् । तदनु दारुवर्मा वाक्यानीत्थंविधानि
श्रावंश्रावं तूष्णीं यदि भिया स्थास्यति तर्हि वरम् । यदि वा दौर्ज -
न्येन त्वया सङ्गमङ्गीकरिष्यति, तदा स भवदीयैरित्थं वाच्यः -
'सौम्य, दर्पसारवसुधाधिपामात्यस्य भवतोऽस्मन्निवासे साहसकर-
णमनुचितम् । पौरजनसाक्षिकं भवन्मन्दिरमानीतया तोयजाक्ष्या
सह क्रीडन्नायुष्मान्यदि भविष्यसि तदा परिणीय तरुणीं मनो-
रथान्निर्विश' इति । सोऽप्येतदङ्गीकरिष्यति । त्वं सखीवेषधा-
रिणा मया सह तस्य मन्दिरं गच्छ । अहमेकान्तनिकेतने मुष्टि-
जानुपादाघातैस्तं रभसान्निहत्य पुनरपि वयस्यामिषेण भवतीमनु
निःशङ्कं निर्गमिष्यामि । तदेनमुपायमङ्गीकृत्य विगतसाध्वसलज्जा
भवज्जनकजननीसहोदराणां पुरत आवयोः प्रेमातिशयमाख्याय
 
शासनमतिक्रम्य तन्निदेशमतिवृत्य । उल्लङ्घ्येत्यर्थः । पारदार्य परदाराभिमर्शः । परद्रव्येति स्पष्टम् । मन्मथः कामः । मनो मथ्नातीति मन्मथः । आयत्तमधीनम् । रागोद्रेकं प्रीत्यतिशयम् । अन्तरायं विघ्नम् । वल्लभां प्रियाम् । दुष्टं हृदयं यस्य । मृदुः कोमलः पेशल: । 'अधिशीङ्स्थासां कर्म (१९४१४६) इति कर्मत्वम् । तस्या आकारसंपदः शोभनाकृतेराशा तया शृङ्खलितं हृदयं यस्य सः । साहसिकः साहसं कर्तुमुद्यतः ।
सत्यं वाक्यं येषां तैः । आप्तैरित्यर्थः । श्रावंश्रावं श्रुत्वा श्रुत्वा । णमुल् । तोयजं कमलम् । निर्विशोपभुङ्क्ष्व । निकेतने गृहे । रभसाद्वेगेन । अनुनयेस्तोषयेः । लिङ् ।