2023-05-29 17:19:53 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
[पूर्वपीठिकायां
-
शासनमतिक्रम्य पारदार्यपरद्रव्यापहरणादि
मन्मथसमानस्य भवतो लावण्यायत्तचित्तां मामेकदा विलोक्य
कन्यादूषणदोषं दूरीकृत्य बलात्कारेण रन्तुमु
दैन्यमगच्छम्' इति । तस्या मनोगतम्, मयि रागोद्रेकम्, मन्म-
नोरथसि
वर्मणो मारणोपायं च विचार्य वल्लभामवोचम् – 'तरुणि, भव-
द
यक्षः कश्चिदधिष्ठाय बालचन्द्रिकां निवसति । तदाकारसंपदा-
शालितहृदयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तं यक्षं
निर्जित्य तयैकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय
कुशली निर्गमिष्यति, तेन चक्रवाकसंशयाकारपयोधरा विवाह-
नीयेति सिद्धेनैकेनावादीति पुरजनस्य पुरतो भवदीयैः सत्य-
वाक्यैर्जनैरसकृत्कथनीयम् । त
श्रावंश्रावं तूष्णीं यदि भिया स्थास्यति तर्हि वरम् । यदि वा दौर्ज -
न्येन त्वया सङ्गमङ्गीकरिष्यति, तदा स भवदीयैरित्थं वाच्यः -
'सौम्य, दर्पसारवसुधाधिपामात्यस्य भवतोऽस्मन्निवासे साहसकर-
णमनुचितम् । पौरजनसाक्षिकं भवन्मन्दिरमानीतया तोयजाक्ष्या
सह क्रीडन्नायुष्मान्यदि भविष्यसि तदा परिणीय तरुणीं मनो-
रथान्निर्विश' इति । सोऽप्येतदङ्गीकरिष्यति । त्वं सखीवेषधा-
रिणा मया सह तस्य मन्दिरं गच्छ । अहमेकान्तनिकेतने मुष्टि-
जानुपादाघातैस्तं रभसान्निहत्य पुनरपि वयस्यामिषेण भवतीमनु
निःशङ्कं निर्गमिष्यामि । त
भवज्जनकजननीसहोदराणां पुरत आवयोः प्रेमातिशयमाख्याय
४२
शासनमतिक्रम्य तन्निदेशमतिवृत्य । उल्ल
स॒व्
सत्यं वाक्यं येषां तैः । आप्तैरित्यर्थः । श्रावंश्रावं श्रुत्वा श्रुत्वा । णमुल् । तोयजं