2023-05-18 02:10:00 by ambuda-bot
This page has not been fully proofread.
दशकुमारचरितम् ।
[पूर्वपीठिकायां
दुष्कर्म कुर्वाणो
-
शासनमतिक्रम्य पारदार्यपरद्रव्यापहरणादि
मन्मथसमानस्य भवतो लावण्यायत्तचित्तां मामेकदा विलोक्य
कन्यादूषणदोषं दूरीकृत्य बलात्कारेण रन्तुमुधुङ्के । तच्चिन्तया
दैन्यमगच्छम्' इति । तस्या मनोगतम्, मयि रागोद्रेकम्, मन्म-
नोरथसिड्यन्तरायं च निशम्य बाष्पपूर्णलोचनां तामाश्वास्य दारु -
वर्मणो मारणोपायं च विचार्य वल्लभामवोचम् – 'तरुणि, भव-
दमिलाषिणं दुष्टहृदयमेनं निहन्तुं मृदुरुपायः कश्चिन्मया चिन्त्यते ।
यक्षः कश्चिदधिष्ठाय बालचन्द्रिकां निवसति । तदाकारसंपदा-
शालितहृयो यः संबन्धयोग्यः साहसिको रतिमन्दिरे तं यक्षं
निर्जित्य तयैकसखीसमेतया मृगाक्ष्या संलापामृतसुखमनुभूय
कुशली निर्गमिष्यति, तेन चक्रवाकसंशयाकारपयोधरा विवाह-
नीयेति सिद्धेनैकेनावादीति पुरजनस्य पुरतो भवदीयैः सत्य-
वाक्यैर्जनैरसकृत्कथनीयम् । तद्नु दारुवर्मा वाक्यानीत्थंविधानि
श्रावं तूष्णीं यदि भिया स्थास्यति तर्हि वरम् । यदि वा दौर्ज -
न्येन त्वया सङ्गमङ्गीकरिष्यति, तदा स भवदीयैरित्थं वाच्यः -
'सौम्य, दर्पसारवसुधाधिपामात्यस्य भवतोऽस्मन्निवासे साहसकर-
णमनुचितम् । पौरजनसाक्षिकं भवन्मन्दिरमानीतया तोयजाक्ष्या
सह क्रीडन्नायुष्मान्यदि भविष्यसि तदा परिणीय तरुणीं मनो-
रथान्निर्विश' इति । सोऽप्येतदङ्गीकरिष्यति । त्वं सखीवेषधा-
रिणा मया सह तस्य मन्दिरं गच्छ । अहमेकान्तनिकेतने मुष्टि-
जानुपादाघातैस्तं रभसान्निहत्य पुनरपि वयस्यामिषेण भवतीमनु
निःशङ्कं निर्गमिष्यामि । तçनमुपायमङ्गीकृत्य विगतसाध्वसलज्जा
भवज्जनकजननीसहोदराणां पुरत आवयोः प्रेमातिशयमाख्याय
४२
शासनमतिक्रम्य तन्निदेशमतिवृत्य । उल्लड़येत्यर्थः । पारदार्य परदाराभिमर्शः । पर
द्रव्येति स्पष्टम् । मन्मथः कामः । मनो मनातीति मन्मथः । आयत्तमधीनम् । रागो-
द्रेकं प्रीत्यतिशयम् । अन्तरायं विघ्नम् । वल्लभां प्रियाम् । दुष्टं हृदयं यस्य । मृदुः कोमलः
पेशल: । 'अधिशीङ्स्थासां कर्म (१९४१४६) इति कर्मत्वम् । तस्या आकारसंपदः
शोभनाकृतेराशा तया शृङ्खलितं हृदयं यस्य सः । साहसिकः साहसं कर्तुमुद्यतः ।
स॒व्यं वाक्यं येषां तैः । आतैरित्यर्थः । श्रावंश्रावं श्रुत्वा श्रुत्वा । णमुल् । तोयजं
कमलम् । निर्विशोपभुत । निकेतने गृहे । रभसाद्वेगेन । अनुनयेस्तोषयेः । लिङ् ।