2023-05-29 17:09:44 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
विशेषैर्निजमनोवृत्तिमकथयत् । चतुरगूढचेष्टाभिरस्या मनोनुरागं
सम्यग्ज्ञात्वा सुखसंगमोपायमचिन्तयम् । अन्यदा बन्धुपालः
शकुनैर्भवद्गतिं प्रेक्षिष्यमाणः पुरोपान्तविहारवनं मया सहोपेत्य
कस्मिंश्चिन्महीरुहे शकुन्तवचनानि शृण्वन्नतिष्ठत् । अहमुत्कलि-
काविनोदपरायणो [^१]वनान्तरे परिभ्रमन्सरोवरतीरे चिन्ताक्रान्त-
चित्तां दीनवदनां मन्मनोरथैकभूमिं बालचन्द्रिकां व्यलोकयम् ।
तस्याः ससंभ्रमप्रेमलज्जाकौतुकमनोरमं लीलाविलोकनसुखमनु-
भवन्सुदत्या वदनारविन्दे विषण्णभावं मदनकदनखेदानुभूतं
ज्ञात्वा तन्निमित्तं ज्ञास्यंल्लोलया तदुपकण्ठ [^२]मुपेत्यावोचिषम्-
'सुमुखि, तव मुखारविन्दस्य दैन्यकारणं कथय' इति । सा रहस्य -
संजातविश्रम्भतया विहाय लज्जाभये शनैरभाषत – 'सौम्य,
मानसारो मालवाधीश्वरो वार्धकस्य प्रबलतया निजनन्दनं दर्प-
सारमुज्जयिन्यामभ्यषिञ्चत् । स कुमारः सप्तसागरपर्यन्तं मही-
मण्डलं पालयिष्यन्निजपैतृष्वस्रेयावुद्दण्डकर्माणौ चण्डवर्मदारू-
वर्माणौ धरणीभरणे नियुज्य तपश्चरणाय [^३]राजराजगिरिमभ्यगात् । राज्यं सर्वमसपत्नं शासति चण्डवर्मणि दारुवर्मा मातुलाग्रजन्मनोः
इति च्छेदः । 'साङ्गभङ्गिभिः' इति पाठे अङ्गभजिङ्गिभिः सहिताभिः । 'व्याजच्छलनिभे भङ्गिः' इति रभसः । विशेषावस्थानशोभिभिरित्यर्थः । मनोवृत्ति मनोव्यापारम् ।
अभिलाषमिति यावत् । अनुरागं प्रीतिम् । सुखेन संगमस्योपायस्तम् । अन्यदान्यस्मिन्काले । शकुनैर्निमित्तैः । गतिम् । 'गतिमर्गे दशायां च ज्ञाने पात्राभ्युपाययोः । नाडीव्रणसरण्यां च' इति विश्वः । उपान्ते समीपे विहारवनं क्रीडोद्यानम् । शकुन्ताः पक्षिणः । उत्कलिकः सोत्कण्ठः । विनोदोऽपनोदः । परायणस्तत्परः । वनान्तरेऽन्यस्मिन्वने । चिन्तयाक्रान्तं पर्याकुलं चित्तं यस्याः । दीनवदनां विषण्णमुखीम् । एकभूमिं मुख्यस्थानम् । मदनकदनं सुरतम् । उपकण्ठं समीपम् । रहस्यविषये संजात उत्पन्नो विश्रम्भस्तत्तया । वार्धकस्य जरायाः । पैतृष्वस्रेयौ
पितुः स्वसुस्तनयौ । 'मातृपितृभ्यां स्वसा' (८।३।८४ ) इति स्वसुः सस्य षत्वम् । उद्दण्डं घोरं कर्म ययोः । चण्डवर्मदारुवर्मेति तन्नामनी । धरणीभरणे पृथ्वीभरे । राज्य इत्यर्थः । राजराजः कुबेरस्तस्य गिरिः कैलासः । असपत्नं निर्जितशत्रुम् ।
निष्कण्टकमिति यावत् । शासति सति । मातुलो मातुर्भ्राता, अग्रजन्मा ज्यायान्भ्राता, तयोः । 'मातुर्डुलच्- ' ( वा० ) 'पितृव्यमातुल -' (४।१२।३६ ) इति निपातः ।
[^१]G. 'वनान्ते'.
[^२]G. 'अवोचम्'.
[^३]G. 'राजगिरिम्'.
सम्यग्ज्ञात्वा सुखसंगमोपायमचिन्तयम् । अन्यदा बन्धुपालः
शकुनैर्भवद्गतिं प्रेक्षिष्यमाणः पुरोपान्तविहारवनं मया सहोपेत्य
कस्मिंश्चिन्महीरुहे शकुन्तवचनानि शृण्वन्नतिष्ठत् । अहमुत्कलि-
काविनोदपरायणो [^१]वनान्तरे परिभ्रमन्सरोवरतीरे चिन्ताक्रान्त-
चित्तां दीनवदनां मन्मनोरथैकभूमिं बालचन्द्रिकां व्यलोकयम् ।
तस्याः ससंभ्रमप्रेमलज्जाकौतुकमनोरमं लीलाविलोकनसुखमनु-
भवन्सुदत्या वदनारविन्दे विषण्णभावं मदनकदनखेदानुभूतं
ज्ञात्वा तन्निमित्तं ज्ञास्यंल्लोलया तदुपकण्ठ [^२]मुपेत्यावोचिषम्-
'सुमुखि, तव मुखारविन्दस्य दैन्यकारणं कथय' इति । सा रहस्य -
संजातविश्रम्भतया विहाय लज्जाभये शनैरभाषत – 'सौम्य,
मानसारो मालवाधीश्वरो वार्धकस्य प्रबलतया निजनन्दनं दर्प-
सारमुज्जयिन्यामभ्यषिञ्चत् । स कुमारः सप्तसागरपर्यन्तं मही-
मण्डलं पालयिष्यन्निजपैतृष्वस्रेयावुद्दण्डकर्माणौ चण्डवर्मदारू-
वर्माणौ धरणीभरणे नियुज्य तपश्चरणाय [^३]राजराजगिरिमभ्यगात् । राज्यं सर्वमसपत्नं शासति चण्डवर्मणि दारुवर्मा मातुलाग्रजन्मनोः
इति च्छेदः । 'साङ्गभङ्गिभिः' इति पाठे अङ्गभ