2023-05-29 17:05:20 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
सम्यग्ज्ञात्वा सुखसंगमोपायमचिन्तयम् । अन्यदा बन्धुपालः
शकुनैर्भवद्गतिं प्रेक्षिष्यमाणः पुरोपान्तविहारवनं मया सहोपेत्य
कस्मिंश्चिन्महीरुहे शकुन्तवचनानि शृण्वन्नतिष्ठत् । अहमुत्कलि-
काविनोदपरायणो
चित्तां दीनवदनां मन्मनोरथैक
तस्याः ससंभ्रमप्रेमलज्जाकौतुकमनोरमं लीलाविलोकनसुखमनु-
भवन्सुदत्या वदनारविन्दे विषण्णभावं मदनकदनखेदानुभूतं
ज्ञात्वा तन्निमित्तं ज्ञास्यंल्लोलया तदुपकण्ठ [^२]मुपेत्यावोचिषम्-
'सुमुखि, तव मुखारविन्दस्य दैन्यकारणं कथय' इति । सा रहस्य -
संजातविश्रम्भतया विहाय लज्जाभये शनैरभाषत – 'सौम्य,
मानसारो मालवाधीश्वरो वार्धकस्य प्रबलतया निजनन्दनं दर्प-
सारमुज्जयिन्यामभ्यषिञ्चत् । स कुमारः सप्तसागर
मण्डलं पालयिष्यन्निजपैतृष्वस्
वर्माणौ धरणीभरणे नियुज्य तपश्चरणाय [^३]राजराजगिरिमभ्यगात् ।
इति च्छेदः । 'साङ्गभङ्गिभिः' इति पाठे अङ्गभजिभिः सहिताभिः । 'व्याजच्छलनि
अभिलाषमिति यावत् । अनुरागं प्रीतिम् । सुखेन संगमस्योपायस्तम् । अन्यदान्य
पितुः स्वसुस्तनयौ । 'मातृपितृभ्यां स्वसा' (८।३।८४ ) इति स्वसुः सस्य षत्वम् ।
निष्कण्टकमिति यावत् । शासति सति । मातुलो मातुर्भ्राता, अग्रजन्मा ज्यायान्भ्राता,
पाठा० -
[^१]G. 'वनान्ते'.
[^२]G. 'अवोचम्'.
[^३]G. 'राजगिरिम्'.
-