2023-05-29 16:50:16 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

४०
 
दशकुमारचरितम् । [ पूर्वपीठिकायां
 
मानं शनैः कटकमनयम् । तदधिकारिणा चन्द्रपालेन केनचिद्व-

णिक्पुत्रेण विरचितसौहृदोऽहममुनैव साकमुज्जयिनीमुपाविशम् ।

मत्पितरावपि तां पुरीमभिगमय्य सकलगुणनिलयेन बन्धुपालनाम्ना

चन्द्रपालजनकेन नीयमानो मालवनाथदर्शनं विधाय तदनुमत्या

गूढवसतिमकरवम् । ततः काननभूमिषु भवन्तमन्वेष्टुमुद्युक्तं मां

परममित्रं बन्धुपालो निशम्यावदत् - 'सकलं धरणितलमपार-

मन्वेष्टुमक्षमो भवान्मनोग्लानिं विहाय तूष्णीं तिष्ठतु । भवन्नाय -

कालोकनकारणं शुभशकुनं निरीक्ष्य कथयिष्यामि' इति । तल्ल-

पितामृताश्वासितहृद्योऽहमनुदिनं तदुपकण्ठवर्ती कदाचिदिन्दु-

मुखीं नवयौवनावलीढावयवां नयनचन्द्रिकां बालचन्द्रिकां नाम

तरुणीरत्नं वणिङ्मन्दिरलक्ष्मीं मूर्तामिवावलोक्य तदीयलावण्याव-

धूतधीरभावो लतान्तबाणबाणलक्ष्यतामयासिषम् । चकितबाल-

कुरङ्गलोचना सापि कुसुमसायकसायकायमानेन कटाक्षवीक्षणेन

मामसकृन्निरीक्ष्य मन्दमारुतान्दोलिता लतेवाकम्पत । मनसाभि-

मुखैः समाकुञ्चितै रागलज्जान्तरालवर्तिभिः [^१]साङ्गवर्तिभिरीक्षण-
-
 
a
 

 
'जानपदकुण्डगोण-' (४११४२ ) इति डीङीष् आवपनार्थे । अन्यद्रव्यमिषेणान्यद्र-
व्यमिति कथयित्वा । वसु द्रव्यम् । 'रिक्थमृक्थं धनं वसु' इत्यमरः । उद्ह्यमानम् ।
'वह प्रापणे' । कर्मणि शानच् । अधिकारी स्वामी मुख्यः । विरचितं कृतम् ।

सौहृदं मैत्री । साकं सह । 'साकं सत्रा समं सह' इत्यमरः । निलयो गृहं वासस्था-
नम् । गूढवसति गुप्तवासम् । काननभूमिषु वनप्रदेशेषु । न विद्यते पारोऽन्तो
यस्य तत् । ग्लानि हर्षक्षयं निर्वेदम् । बिविहाय व्त्यक्त्वा । तूष्णीं जोषम् । लपितं
भाषितम् । उपकण्ठवर्ती समीपवर्ती । अवलीढा व्याप्ताः । नयनयोश्चन्द्रिका ज्योत्स्ना ।
मूर्ता मूर्तिमतीम् । तदीयेति । तस्या लावण्येन सौन्दर्येणावधूतश्चालितो
धीरभावो धैर्यं यस्यैतादृशः । लतान्ता बाणा यस्य स लतान्तबाणः कामस्तस्य
बाणास्तेषां लक्ष्यतां शरव्यत्वम् । लावण्यवतीं तां दृष्ट्वा कामबाणैर्विद्धोऽभवमिति
तात्पर्यार्थः । चकितो भीतः । कुरङ्गो मृगः । 'मृगे कुरङ्गवातायु-' इत्यमरः ।

बालशब्देनातिकातरत्वमतिलोलत्वं च नयनयोर्दर्शितम् । कुसुमानि सायका यस्य
स कामस्तस्य सायक इवाचरतीति तथा तेन । कटाक्षवीक्षणेन चेष्टाविशेषेणापा-
ङ्गदर्शनेन । 'कटाक्षोऽपाङ्गदर्शने' इत्यमरः । असकृत् वारंवारम् । आन्दोलिता
कम्पिता। रागच लज्जा च तयोरन्तराले मध्ये वर्तन्ते ताभिः । अङ्गवर्तिभिः
 
पाठा० -

 
[^
]G. 'साङ्गभङ्गिभिः', 'अपाङ्गवर्तिभिः'.