2023-05-29 15:48:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

गृहीते मद्द्वीतीया परिभ्रमन्ती 'षोडशवर्षानन्तरं भर्तृपुत्रसंगमो
भविष्यति' इति सिद्धवाक्यविश्वासादेकस्मिन्पुण्याश्रमे तावन्तं
समयं नीत्वा शोकमपारं सोढुमक्षमा समुज्ज्वलिते वैश्वानरे शरी-
रमाहुतीकर्तुमुद्युक्तासीत्' इति । तदाकर्ण्य निजजननीं ज्ञात्वा
तामहं दण्डवत्प्रणम्य [^१]तस्यै मदुदन्तमखिलमाख्याय धात्रीभाषणफुल्लवदनं विस्मयविकसिताक्षं जनकमदर्शयम् । पितरौ तौ साभिज्ञानमन्योन्यं ज्ञात्वा मुदितान्तरात्मानौ विनीतं [^२]मामानन्दानुवर्षेणाभिषिच्य गाढमाश्लिष्य शिरस्युपाघ्राय कस्यांचिन्महीरुहच्छायायामुपाविशताम् । 'कथं निवसति महीवल्लभो राजहंसः ?' इति जनकेन पृष्टोऽहं तस्य राज्यच्युतिं त्वदीयजननं सकलकुमारावाप्तिं तव दिग्विजयारम्भं भवतो मातङ्गानुयानमस्माकं युष्मदन्वेषणकारणं सकलमभ्यधाम् । ततस्तौ कस्यचिदाश्रमे मुनेरस्थापयम् ।
ततो देवस्यान्वेषणपरायणोऽहमखिलकार्यनिमित्तं वित्तं निश्चित्य
भवदनुग्रहाल्लब्धस्य साधकत्वस्य साहाय्यकरणदक्षं शिष्यगणं
निष्पाद्य विन्ध्यवनमध्ये पुरातनपत्तनस्थानान्युपेत्य विविधनिधिसूच-
कानां महीरुहाणामधोनिक्षिप्तान्वसुपूर्णान्कलशान्सिद्धाञ्जनेन ज्ञात्वा रक्षिषु [^३]परितः स्थितेषु खननसाधनैरुत्पाट्य दीनारानसंख्यान्राशीकृत्य तत्कालागतमनतिदूरे निवेशितं वणिक्कटकं कंचिदभ्येत्य तत्र बलिनो बलीवर्दान्गोणीश्च क्रीत्वान्यद्रव्यमिषेण वसु तद्गोणीसंचितं[^४] तैरुह्य-
 
यस्याः सा । आत्मजं तनयम् । वनमातङ्गेन वन्यकरिणा । अहं द्वितीया सहायभूता यस्याः सा । तावन्तं समयं षोडशाब्दान् । अक्षमासमर्था । समुज्ज्वलिते समिद्धे । वैश्वानरे वह्नौ । दण्डः काष्ठदण्डः । साष्टाङ्गप्रणिपातं कृत्वेत्यर्थः । उदन्तं वार्ताम् ।
साभिज्ञानमन्योन्यप्रत्यभिज्ञादर्शकचिह्नानि दृष्ट्वा पृष्ट्वा च । मुदितो हृष्टोऽन्तरात्मा ययोस्तौ । विनीतं प्रश्रयावनतम् । च्युतिर्भ्रंशः ॥
 
तत इति । पितृस्थापनानन्तरमित्यर्थः । परायणस्तत्परः । वित्तं द्रव्यम् । दक्षश्चतुरः । पुरातनानि पुराणानि । पत्तनानि नगराणि । निधिः शेवधिः । सिद्धाञ्जनेन सिद्धादिष्टेन दत्तेन वाञ्जनेन । रक्षिषु रक्षकेषु । खननसाधनैः खनित्रादिभिः । दीनारानेतत्संज्ञकनाणकान् । वणिक्कटकं वणिक्समाजम् । बलिनो बलवतः। बलीवर्दान्वृषभान् । 'उक्षा भद्रो बलीवर्दः' इत्यमरः । गोणीर्धान्यावपनानि ।
 
[^१]G. 'तस्सै'.
[^२]G. 'अमन्दाश्रु'.
[^३]G. 'पुरत:'.
[^४]G. 'संमितम्' .