This page has not been fully proofread.

३८
 
दशकुमारचरितम् । [ पूर्वपीठिकायां
 
वणिक्कन्यकां परिणीय तथा सह प्रत्यागच्छन्नम्बुधौ तीरस्यानतिदूर
एव प्रवहणस्य भग्नतया सर्वेषु निमग्नेषु कथंकथमपि दैवानुकू -
ल्येन तीरभूमिमभिगम्य निजाङ्गनावियोगदुःखार्णवे प्लवमानः
कस्यापि सिद्धतापसस्यादेशादरेण षोडशहायनानि कथंचिन्नीत्वा
दुःखस्य पारमनवेक्षमाणो गिरिपतनमकार्षम्' इति । तस्मिन्नेवा-
वसरे किमपि नारीकूजितमश्रावि – 'न खलु समुचितमिदं यत्सि-
द्धादिष्टे पतितनयमिलने विरहमसहिष्णुर्वैश्वानरं विशसि' इति ।
तन्निशम्य मनोविदितजनकभावं तमवादिषम् – 'तात, भवते
विज्ञापनीयानि बहूनि सन्ति । भवतु । पश्चाखिलमाख्यातव्यम् ।
अधुना नारीकूजितमनुपेक्षणीयं मया । क्षणमात्रमत्र भवता
स्थीयताम्' इति । तद्नु सोऽहं त्वरया किंचिदन्तरमगमम् । तत्र
पुरतो भयंकरज्वालाकुलहुतभुगवगाहनसाहसिकां मुकुलिताञ्जलि-
पुटां वनितां कांचिदवलोक्य ससंभ्रममनलादपनीय कूजन्त्या
वृद्धया सह मत्पितुरभ्यर्णमभिगमय्य स्थविरामवोचम् –'वृद्धे,
भवत्य कुनये ? कान्तारे निमित्तेन केन दुरवस्थानुभूयते ?
कथ्यताम्' इति । सा सगद्गदमवादीत् – 'पुत्र, कालयवनद्वीपे
कालगुप्तनाम्नो वणिजः कस्यचिदेषा सुता सुवृत्ता नाम रत्नोद्भवेन
निजकान्तेनागच्छन्ती जलधौ मने प्रवहणे निजधात्र्या मया सह
फलकमेकमवलम्ब्य दैवयोगेन कूलमुपेतासन्नप्रसवसमया कस्यां-
चिट्टव्यामात्मजमसूत । मम तु मन्दभाग्यतया बाले वनमातङ्गेन
 
सागरे । प्रवहणस्य पोतस्य । कथंकथमपि महतायासेन । अङ्गना भार्या, तस्या
वियोगदुःखमेवार्णवः तस्मिन् । हायनानि वत्सरान् । 'हायनोऽस्त्री शरत्समाः'
इत्यमरः । कूजितं शब्दः । अश्रावि । 'श्रु श्रवणे' । कर्मणि लुङ् । समुचितं
युक्तम् । योग्यमित्यर्थः । सिद्धेनादिष्टे कथिते । वैश्वानरं वह्निम् । मनसा विदितो
जनकभावो यस्य तम् । विज्ञापनीयानि विज्ञापयितुं योग्यानि । अनुपेक्षणीयमुपेक्षितुं
न योग्यम् । ज्वालाभिराकुलो यो हुतभुगग्निः तत्रावगाहनं प्रवेशः, तत्र साहसिकां
उद्यतामित्यर्थः । अनलाद्वः । अभ्यर्ण समीपम् । अभिगमय्य प्रापय्य । णिजन्ता-
ह्यप् । कुत्रत्ये कुत आयते । दुरवस्था सव्यसनिता । सगद्दं गद्दस्वरेण । प्रवहणे
पोते । वात्र्युपमाता । दैवमदृष्टम् । कूलं तीरम् । आसन्नः प्राप्तः प्रसवस्य समयो

 
1
 
पाठा०-१ 'अम्बुतीरस्य'.