2023-05-18 02:09:59 by ambuda-bot
This page has not been fully proofread.
चतुर्थोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
३७
भूसुरकार्य करिष्णुरहं मित्रगणो विदितार्थः सर्वथान्तरायं करि-
ष्यतीति निद्रितान्भवतः परित्यज्य निरगाम् । तदनु प्रबुद्धो वय-
स्यवर्गः किमिति निश्चित्य मदन्वेषणाय कुत्र गतवान् ? भवाने-
काकी कुत्र गंतः ?' इति । सोऽपि ललाटतटचुम्बदञ्जलिपुटः सवि-
नयमलपत्-
इति श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचरितं नाम तृतीय उच्चासः ।
चतुर्थोच्छ्छ्रासः ।
'देव, महीसुरोपकारायैव देवो गतवानिति निश्चित्यापि
देवेन गन्तव्यं देशं निर्णेतुमशक्नुवानो मित्रगणः परस्परं वियुज्य
दिक्षु देवमन्वेष्टुमगच्छत् । अहमपि देवस्यान्वेषणाय महीमट-
न्कदाचिदम्बरमध्यगतस्याम्बरमणे: किरणमसहिष्णुरेकस्य गिरि-
तटमहीरुहस्य प्रच्छायशीतले तले क्षणमुपाविशम् । मम पुरोभागे
दिर्नमध्यसंकुचितसर्वावयवां कैर्माकृर्ति मानुषच्छायां निरीक्ष्यो-
न्मुखो गगनतलान्महारयेण पतन्तं पुरुषं कंचिदन्तराल एव
दयोपनतहृदयोऽहमवलम्ब्य शनैरवनितले निक्षिप्य दूरापातवी-
तसंज्ञं तं शिशिरोपचारेण विबोध्य शोकातिरेकेणोद्गत बाष्पलोचनं
तं भृगुपतनकारणमपृच्छम् । सोऽपि कररुहैरथुकणानपनयन्न-
भाषत – 'सौम्य, मगधाधिनाथामात्यस्य पद्मोद्भवस्यात्मसंभवो
रत्नोद्भवो नामाहम् । वाणिज्यरूपेण कालयवनद्वीपमुपेत्य कामपि
उपालभ्य गर्हिला । निटिलं ललाटम् । अन्तरायं विघ्नम् । अलपत् बभाषे ॥
इति श्रीदशकुमारचरितपूर्वपीठिकाव्याख्यायां
पददीपिकायां तृतीय उच्वासः ।
देवेति । अम्बरमध्य आकाशमध्यः । अम्बरमणेः सूर्यस्य । दिनस्य दिवसस्य
मध्येन संकुचिताः सर्वेऽवयवा यस्याः सा । रयेण वेगेन । वीतसंज्ञं नष्टचेष्टम् ।
विबोध्य प्रकृतिमापाद्य । अतिरेकोऽतिशयः । भृगो: पतनस्य कारणं हेतुम् ।
'प्रपातस्त्वतटो भृगुः' इत्यमरः । कररुहैर्नखैः । आत्मसंभवः पुत्रः । अम्बुधौ
३ 'शूर्पाकृतिं
पाठा०-१ 'गन्ता'. २ 'दिनमध्यसमये संकुचित'.
कूर्माकृतिम्'.
४ ६० कु०