2023-05-29 10:19:56 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
ततोऽतिरयतुरंगमं मद्रथं तन्निकटं नीत्वा शीघ्रलङ्घनोपेतत-
दीयरथोऽहमरातेः शिरःकर्तनमकार्षम् । तस्मिन्पतिते [^१]तदव-
शिष्टसैनिकेषु पलायितेषु नानाविधहयगजादिवस्तुजातमादाय
परमानन्दससंन[^२]तो मन्त्री ममानेकविधां संभावनामकार्षीत् । मानपालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमाकर्ण्य संतुष्टमना राजाभ्युद्गतो मदीयपराक्रमे विस्मयमानःसमहोत्सवममात्यबान्धवा-
नुमत्या शुभदिने निजतनयां मह्यमदात् । ततो यौवराज्याभि-
षिक्तोऽहमनुदिनमाराधितमहीपालचित्तो वामलोचनयानया सह
नानाविधं सौख्यमनुभवन्भवद्विरहवेदनाशल्यसुलभवैकल्यहृदयः
सिद्धादेशेन सुहृज्जनावलोकनफलं प्रदेशं महाकालनिवासिनः
परमेश्वरस्याराधनायाद्य पत्नीसमेतः समागतोऽस्मि । भक्तवत्स-
लस्य गौरीपतेः कारुण्येन त्वत्पदारविन्दसंदर्शनानन्दसंदोहो मया
लब्धः' इति ।
तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे दैव-
मुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास । तस्मिन्नवसरे पुरतः
पुष्पोद्भवं विलोक्य ससंभ्रमं निजनिटिलतटस्पृष्टचरणाङ्गुलिमुदञ्जलिममुं गाढमालिङ्ग्यानन्दबाष्पसंकुलसंफुल्ललोचनः 'सौम्य सोम-
दत्त, अयं स पुष्पोद्भवः' इति तस्मै तं दर्शयामास । तौ च
चिरविरहदुःखं विसृज्यान्योन्यालिङ्गनसुखमन्वभूताम् । ततस्तस्यैव
महीरुहस्य च्छायायामुपविश्य राजा सादरहासमभाषत – 'वयस्य,
वृष्टिः । अरातीञ्छत्रून् । अतिरया वेगवन्तस्तुरंगमा यस्य तम् । शीघ्रं लङ्घनमाक्रमणं तेन उपेतः प्राप्तः तस्यायं तदीयो रथो येन । तदर्थं गत्वेत्यर्थः । अरातेः शत्रोः । शिरःकर्तनमिति । शिरोऽच्छिनदमित्यर्थः । संनतो युक्तः । संभावनां
सत्कारम् । अभ्युद्गतः संमानार्थं प्रत्युद्यातः । युवा चासौ राजा चेति युवराजः तस्य भावः । आराधितं संतोषितम् । शल्यं शङ्कुम् । विकलस्य भावः वैकल्यं विह्वलवम् । भवतो विरहस्तस्य वेदना एव शल्यानि तेभ्यः सुलभं वैकल्यं यस्य तादृक् हृदयं यस्य । महाकालेत्याख्यस्थले निवसतीति तम् । संदोहोऽतिशयः ।
लब्धः प्राप्तः ॥
तदिति । निशम्य श्रुत्वा । अभिनन्दितः स्तुतः पराक्रमो येन । दैवमदृष्टम् ।
[^१]G. 'तदावशिष्ट:'.
[^२]G. 'संभृत:'.
दीयरथोऽहमरातेः शिरःकर्तनमकार्षम् । तस्मिन्पतिते [^१]तदव-
शिष्टसैनिकेषु पलायितेषु नानाविधहयगजादिवस्तुजातमादाय
परमानन्द