2023-05-29 10:14:32 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[पूर्वपीठिकायां
 
ततोऽतिरयतुरंगमं
 
मद्रथं तन्निकटं नीत्वा शीघ्रलङ्घनोपेतत-

दीयरथोऽहमरातेः शिरःकर्तनमकार्षम् । तस्मिन्पतिते तं[^१]तदव-

शिष्टसैनिकेषु पलायितेषु नानाविधहयगजादिवस्तुजातमादाय
परमानन्दसने

परमानन्दसन[^२]
तो मन्त्री ममानेकविधां संभावनामकार्षीत् । मान-
पालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमाकर्ण्य संतुष्टमना राजा-
भ्युद्तो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्यबान्धवा-

नुमत्या शुभदिने निजतनयां मह्यमदात् । ततो यौवराज्याभि-

षिक्तोऽहमनुदिनमाराघिधितमहीपालचित्तो वामलोचनयानया सह
 
३६
 

नानाविधं सौख्यमनुभवन्भवद्विरहवेदनाशल्यसुलभवैकल्यहृदयः

सिद्धादेशेन सुहृज्जनावलोकनफलं प्रदेशं महाकालनिवासिनः

परमेश्वरस्याराधनायाद्य पत्नीसमेतः समागतोऽस्मि । भक्तवत्स-

लस्य गौरीपतेः कारुण्येन त्वत्पदारविन्दसंदर्शनानन्दसंदोहो मया

लब्धः' इति ।
 

तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे दैव-

मुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास । तस्मिन्नवसरे पुरतः

पुष्पोद्भवं विलोक्य ससंभ्रमं निजनिटिलतटस्पृष्टचरणाङ्गुलिमुदञ्ज-
लिममुं गाढमालिङ्ग्यानन्दवाबाष्पसंकुलसंफुल्ललोचनः 'सौम्य सोम-

दत्त, अयं स पुष्पोद्भवः' इति तस्मै तं दर्शयामास । तौ च

चिरविरहदुःखं विसृज्यान्योन्यालिङ्गनसुखमन्वभूताम् । ततस्तस्यैव

महीरुहस्य च्छायायामुपविश्य राजा सादरहासमभाषत – 'वयस्य,

 
वृष्टिः । अरातीञ्छत्रून् । अतिरया वेगवन्तस्तुरंगमा यस्य तम् । शीघ्रं लङ्घनमा-
क्रमणं तेन उपेतः प्राप्तः तस्यायं तदीयो रथो येन । तदर्थं गत्वेत्यर्थः । अरातेः
शत्रोः । शिरःकर्तनमिति । शिरोऽच्छिनदमित्यर्थः । संनतो युक्तः । संभावनां

सत्कारम् । अभ्युद्गतः संमानार्थं प्रत्युद्यातः । युवा चासौ राजा चेति युवराजः
तस्य भावः । आराधितं संतोषितम् । शल्यं शङ्कुम् । विकलस्य भावः वैकल्यं
विह्वलवम् । भवतो विरहस्तस्य वेदना एव शल्यानि तेभ्यः सुलभं वैकल्यं यस्य
तादृक् हृदयं यस्य । महाकालेत्याख्यस्थले निवसतीति तम् । संदोहोऽतिशयः ।
 
1
 

लब्धः प्राप्तः ॥
 

 
तदिति । निशम्य श्रुत्वा । अभिनन्दितः स्तुतः पराक्रमो येन । दैवमदृष्टम् ।
पाठा० -

 
[^
]G. 'तदावशिष्ट:'.
[^
]G. 'संभृत:'.
 
-