2023-05-28 15:47:49 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
३५
समयोचितैः संलापैर्मैत्रीमकार्षम् । ततोऽर्धरात्रे तेषां मम च
शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थग
कुलाभिमानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् ।
परे
मदीयराजमन्दिरे सुरङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं
कटकं प्राविशन् । तानर्पय । नो चेन्महाननर्थः संभविष्यति' इति
क्रूरतरं वाक्यमब्रुवन् । तदाकर्ण्य रोषारुणितनेत्रो मन्त्री 'लाटपतिः
क:, तेन मैत्री का, पुनरस्य वराकस्य सेवया किं लभ्यम्' इति
तान्निरभर्त्सयत् । ते च मानपालेनोक्तं विप्रलापं मत्तकालाय
तथैवाकथयन् । कुपितोऽपि लाटपतिर्दोर्वीर्यगर्वेणाल्पसैनिकसमेतो
योद्धुमभ्यगात् । पूर्वमेव कृतरणनिश्चयो मानी मानपाल: संनद्ध-
योधो युद्धकामो भूत्वा निःशङ्कं निरगात् । अहमपि सबहुमानं
मन्त्रिदत्तानि बहुलतुरंगमोपेतं चतुरसारथिं रथं च दृढतरं कवचं
मदनुरूपं चापं च विविधबाणपूर्
धानि गृहीत्वा युद्धसंनद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं
मन्त्रिणमन्वगाम् । परस्परमत्सरेण तुमुलसंगरकरमुभयसैन्यमति-
क्रम्य समुल्लसद्भुजाटोपेन बाणवर्षं तदङ्गे विमुञ्चन्नरातीन्प्राहरम् ।
कः,
।
च
वस्थां संकटम् । नामधेयं नाम । युष्मच्छब्देन राजवाहनग्रहणम् । द्वारि तिष्ठन्ति
चतुरसारथिमिति बहुव्रीहिः । कवचं वर्म । 'चिलखत' इति भाषायाम् । तूणीर
पाठा० -
[^१]G. 'आयुधजातम्'.