2023-05-28 15:36:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
अध्वश्रमखिन्नेन मया तत्र निरवेशि निद्रासुखम् । तदनु पश्चा-

न्निगडितबाहुयुगलः स भूसुरः कशाघातचिह्नितगात्रोऽनेकनैस्त्रिं-

शिकानुयातोऽभ्येत्य माम् 'असौ दस्युः' इत्यदर्शयत् । परित्यक्त-

भूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भयरहितं मां

गाढं नियम्य रज्जुभिरानीय कारागारम् 'एते तव सखायः' इति

निगडितान्कांश्चिन्निर्दिष्टवन्तो मामपि निगडितचरणयुगलमकार्षुः ।

किंकर्तव्यतामूढेन निराशक्लेशानुभवेना [^१]वोचि मया - 'ननु परुषा
वीर्यपरुषाः, निमित्तेन केन निर्विशथ कारावासदुःखं
दुस्तरम् ?
यूयं वयस्या इति निर्दिष्टमेतैः, किमिदम् ?' इति । तथाविधं माम-
वेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्याख्याय चोरवीराः
पुनरवोचन्– 'महाभाग, वीरकेतुमन्त्रिणो मानपालस्य किंकरा
वयम् । तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरङ्गाद्वारेण तद्
तदा
गारं
प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमपहृत्य महाटवीं प्रावि-
शाम । अपरेञ्द्युश्च पदान्वेषिणो राजानुचरा बहवोऽभ्येत्य धृत-

धनचयानस्मान्परितः परिवृत्य दृढतरं बद्धा निकटमानीय समस्त-

वस्तुशोधनवेलायामेकस्यानर्ध्यरत्नस्याभावेनास्मद्वधाय माणिक्या-

दानायास्मान्किलाशृङ्खलयन्' इति । श्रुतरत्नरत्नावलोकनस्थानोऽहम्
'इदं तदेव माणिक्यम्' इति निश्चित्य भूदेवदान निमित्तां दुरवस्था-
३४
 
·
 

 
अभिहिता उच्चारिताः । दत्ता इति यावत् । अनेकाशिषो येन सः । निरवेश्युप-
भुक्तम् । अहं निद्रावशोऽभवम् । अस्वपमित्यर्थः । पश्चात्पृष्ठदेशे निगडितं बाहुयुगलं
यस्येति स तथा । दत्तपश्चाद्न्ध इत्यर्थः । भूसुरो विप्रः । कशायाः कशया वा घात
आघातो वा ताडनम् । 'अश्वादेस्ताडनी कशा' इत्यमरः । नैस्त्रिंशिफाः खड्गधारिणः ।
दस्युश्चौरः । परित्यक्तो बन्धनान्मुक्तो भूसुरो यैस्ते । रत्नस्यावाप्तेः प्रकारम् । रज्जुभि-
र्दोरकैः । कारागारं बन्धनगृहम् । निगडितान्बद्धान् । किंकर्तव्यतायां तद्विषये
मूढः । किं कर्तव्यमित्यजानतेत्यर्थः । वीर्येण पराक्रमेण परुषाः कठिनाः । निमि-
त्तेन कारणेन । निर्विशथानुभविष्यथ । व्याख्याय कथयित्वा । चोराश्च ते वीराश्च ।
सुरङ्गा बिलपथः । अगारं गृहम् । राज्ञोऽभावस्तेन । विषण्णाः खिन्नाः । अपरे-
धु
द्युरन्यस्मिन्दिवसे । पदानि पादप्रतिमास्ता अन्विष्यन्तीति पदान्वेषिणः । धृतो

धनचयो यैस्तान् । शोधनमन्वेषणम् । अनर्घ्यममूल्यम् । महामूल्यमित्यर्थः । वधो
नाशः । माणिक्यस्य दानं यावत् । अशृङ्खलयन् शृङ्खलाभिर्निगडितानकुर्वन् । श्रुतं

रत्नस्य रत्नावलोकनस्य च स्थानं येन सः । भूदेवेति । विप्रदानोद्भूताम् । दुर-
पाठा०-

 
 
[^
]G. 'अवाचि'.