2023-05-28 12:35:54 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मौलिना पस्पर्श । प्रमोदाश्रुपूर्णो राजा पुलकिताङ्गं तं गाढमा-
लिङ्ग्य 'अये सौम्य सोमदत्त' इति व्याजहार । ततः कस्यापि
पुंनागभूरुहस्य छायाशीतले तले संविष्टेन मनुजनाथेन सप्रणयम-
भाणि – 'सखे, कालमेतावन्तं देशे कस्मिन्, प्रकारेण केनास्थायि
भवता, संप्रति कुत्र गम्यते, तरुणी केयम्, एष परिजनः
संपादितः कथम्, कथय' इति । सोऽपि मित्रसंदर्शनव्यतिकराप-
गतचिन्ताज्वरातिशयो मुकुलितकरकमलः सविनयमात्मीयप्रचार-
प्रकारमवोचत्-
 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते द्विजोपकृतिर्नाम द्वितीय उच्छ्वासः ॥
 
तृतीयोच्छ्वासः ।
 
'देव, भवच्चरणकमलसेवाभिलाषीभूतोऽहं भ्रमन्नेकस्यां वना-
वनौ पिपासाकुलो लतापरिवृतं शीतलं नदसलिलं पिबन्नुज्ज्वला-
कारं रत्नं तत्रैकमद्राक्षम् । तदादाय गत्वा कंचनाध्वानमम्बरमणे-
रत्युष्णतया गन्तुमक्षमो वनेऽस्मिन्नेव किमपि देवतायतनं
प्रविष्टो दीनाननं बहुतनयसमेतं स्थविरमहीसुरमेकमवलोक्य कुशल-
 
 
त्रिचतुरपदानि त्रीणि वा चत्वारि वा । उद्गतस्य प्रत्युद्यातस्य । मल्लिका पुष्पविशेषः । गलत्स्खलदुल्लसत् उद्धतं च मल्लिकावलयं यस्य तेन । मौलिना शीर्षेण । प्रमोदाश्रुभिः पूर्ण: । पुलका अस्य सञ्जातास्तत् पुलकितं हृषिततनूरुहमङ्गं यस्य तम् ।
गाढं दृढम् । सौम्यो मित्रम् । व्याजहारोवाच । पुंनागः केसरः । भूरुहो वृक्षः । संविष्टेनोपविष्टेन । मित्रसंदर्शनमेव व्यतिकरस्तेनापगतश्चिन्ता एव ज्वरस्तस्यातिशयो यस्य । व्यतिकरो व्यापारः । 'व्यतिकरः समाख्यातो व्यसनव्यतिषङ्गयोः'
इति विश्वः । मुकुलितकरकमलः संयोजितकरयुगलः । बद्धाञ्जलिरिति यावत् । प्रचारो यात्रा भूभ्रमणम् ॥
 
इति श्रीदशकुमारचरितपूर्वपीठिका व्याख्यायां
पददीपिकायां द्वितीय उच्छासः ॥
 
देवेति । वनावनौ काननभूमौ । पातुमिच्छा पिपासा तयाकुलः । नदेत्यदन्तशब्दः । उज्ज्वल आकारो यस्य तम् । अद्राक्षम् । लुङ् । अम्बरमणिः सूर्यः । देवतायतनं मन्दिरम् । दीनं दैन्यव्याप्तमाननं यस्य । समेतं युक्तम् । स्थविरो वृद्धः ।