2023-05-28 12:07:35 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कृतसारथ्येन मनसा भवन्तमागच्छम् । लोकस्यास्य राज्यलक्ष्मी-
मङ्गीकृत्य मां तत्सपत्नीं करोतु भवान्' इति । मातङ्गोऽपि राजवा-
हनानुमत्या तां तरुणीं परिणीय दिव्याङ्गनालाभेन हृष्टतरो रसा-
तलराज्यमुररीकृत्य परमानन्दमाससाद ।
 
वञ्चयित्वा वयस्यगणं समागतो राजवाहनस्तदवलोकनकौतूह-
लेन भुवं गमिष्णुः कालिन्दीदत्तं क्षुत्पिपासादिवेक्लेशनाशनं मणिं
साहाय्यकरणसंतुष्टान्मातङ्गाल्लब्ध्वा कंचनाध्वानमनुवर्तमानं तं
विसृज्य बिलपथेन तेन निर्ययौ । तत्र च मित्रगणमनवलोक्य भुवं
बभ्राम । भ्रमंश्च विशालोपशल्ये कमप्याक्रीडमासाद्य तत्र विशि-
श्रमिषुरान्दोलिकारूढं रमणीसहितमाप्तजनपरिवृतमुद्याने समा-
गतमेकं पुरुषमपश्यत् । सोऽपि परमानन्देन पल्लवितचेता विक-
सितवदनारविन्दः 'मम स्वामी सोमकुलावतंसो विशुद्धयशो-
निधी राजवाहन एषः । महाभाग्यतयाकाण्ड एवास्य पादमूलं
गतवानस्मि । संप्रति महान्नयनोत्सवो जातः' इति ससंभ्रममा-
न्दोलिकाया अवतीर्य सरभसपदविन्यासविलासिहर्षोत्कर्षचरित-
स्त्रिचतुरपदान्युद्गतस्य चरणकमलयुगलं गलदुल्लसन्मल्लिकावलयेन
 
प्रावृष आगमनम् । फलायमानं फलवदाचरतीति तथा । मम राज्यस्यावलम्बभूतानाममात्यानामनुमत्या । मदनेन कृतं सारथ्यं यस्यैतादृशा । समानः पतिर्यस्याः सा सपत्नी । तस्या राज्यलक्ष्म्याः सपत्नीम् । परिणीय विवाह्य । अतिशयेन हृष्टो हृष्टतरः । उररीकृत्य स्वीकृत्य । परमतिशयवन्तम् । आससाद प्राप्तवान् । 'षदॢ विशरणगत्यवसादनेषु' इति धातोर्लिट् ॥
 
वञ्चयित्वेति । वञ्चयित्वा प्रतार्य । कौतूहलेन कौतुकेन । कालिन्दी रसातलगतमातङ्गपत्नी । नाशयतीति नाशनस्तम् । अध्वानं मार्गम् । अनुवर्तमानमागच्छन्तम् । विसृज्य विसर्जयित्वा । उपशल्ये ग्रामान्ते । 'प्ग्रामान्तमुपशल्यं स्यात्' इत्यमरः । आक्रीडमुद्यानम् । 'पुमानाक्रीड उद्यानम्' इत्यमरः । विशिश्रमिषुर्विश्रमितुमिच्छुः । आन्दोलिका दोला । रमणी स्त्री । पल्लवितं विकसितम् । प्रसन्नमिति यावत् । चेतोऽन्तःकरणं यस्य स तथा । विकसितं प्रफुल्लम् । अरविन्दं कमलम् । सोमकुलस्य चन्द्रवंशस्य । अवतंसो भूषणम् । विशुद्धोऽतिशुद्धो यशोनिधिर्यस्य ।
'निधिः राजवाहनः' इति च्छेदः । महाभाग्यतयानुकूलदैववत्तया । अकाण्डे सहसा । ससंभ्रमं सत्वरं सादरं च । रभसेन सहेति सरभसः । सरभसो यः पदविन्यासस्तस्य यो विलासस्तद्वान् । हर्षोत्कर्षो हर्षातिरेकश्चरिते यस्य सः पश्चात्कर्मधारयः ।