This page has not been fully proofread.

दशकुमारचरितम् । [ पूर्वपीठिकायां
 
विधानोपपादितेन हविषा होमं विरच्य प्रत्यूहपरिहारिणि सविस्मयं
विलोकयति राजवाहने समिदाज्यसमुज्ज्वलिते ज्वलने पुण्यगेहं देहं
मन्त्रपूर्वकमाहुतीकृत्य तडित्समानकान्ति दिव्यां तनुमलभत । तदनु
मणिमयमण्डनमण्डलमण्डिता
सकललोकललनाकुलललामभूता
 
३०
 
masina
 
कन्यका काचन विनीतानेकसखीजनानुगम्यमाना कलहंसगत्या शनै-
रागत्यावनिसुरोत्तमाय मणिमेकमुज्ज्वलाकारमुपायनीकृत्य तेन 'का
त्वम्' इति पृष्टा सोत्कण्ठा कलकण्ठस्वनेन मन्दं मन्दमुद्ञ्जलिरभाषत-
'भूसुरोत्तम, अहमसुरोत्तमनन्दिनी कालिन्दी नाम । मम पितास्य
लोकस्य शासिता महानुभावो निजपराक्रमासहिष्णुना विष्णुना
दूरीकृतामरे समरे यमनगरातिथिरकारि । तद्वियोगशोकसागर-
मनां मामवेक्ष्य कोऽपि कारुणिक: सिद्धतापसोऽभाषत - 'बाले,
कश्चिद्दिव्यदेहधारी मानवो नवो वल्लभस्तव भूत्वा सकलं रसातलं
'पालयिष्यति' इति । तदादेशं निशम्य घनशब्दोन्मुखी चातकी
वर्षागमनमिव तवालोकनकाङ्गिणी चिरमतिष्ठम् । मन्मनोरथफलाय-
मानं भवदागमनमवगम्य मद्राज्यावलम्बभूतामात्यानुमत्या मदन-
क्रीडावनम् । कासारः सरः । 'कासारः सरसी सरः' इत्यमरः । वितता बहवः
सारसाः पक्षिविशेषा यत्र । 'विगत-' इति पाठे नष्टा इत्यर्थः । नानाविधेनानेक-
प्रकारेण । ईशः शिवः । विधानं विधिः । उपपादितेन संपादितेन । हविषा हूयते
तद्धविस्तेन आज्यादियाज्यद्रव्येण । विरच्य कृत्वा । प्रत्यूहो विघ्नः । 'विघ्नो-
ऽन्तरायः प्रत्यूहः' इत्यमरः । विलोकयति सति । समिधश्चाज्यं च तैः समुज्व-
लिते दीपिते । ज्वलनेऽनौ । पुण्यस्य गेहं वसतिस्थानम् । देहविशेषणम् । मन्त्र-
पूर्वकं समन्त्रम् । आहुतीकृत्यामौ क्षित्वा । तडिद्विद्युत् । दिव्यां देवतार्हाम्
तनुं शरीरम् । मणिमयानि मणिप्रचुराणि । 'तत्प्रकृतवचने मय' (५।४।२१ )
•इति मयट् । मण्डनानि भूषणानि । मण्डितोपशोभिता । ललामभूता भूषणभूता ।
विनीता नम्रा । कलहंसस्य गत्या । मन्थरगत्येत्यर्थः । अवनिसुरोत्तमाय द्विजश्रे-
ष्ठाय । उज्वलाकारं दीप्रम् । उपायनीकृत्य उपायनं दत्त्वेत्यर्थः । सोत्कण्ठा
उत्कण्ठया सहिता । कलकण्ठः कोकिलः । उदञ्जलिः प्रबद्धाञ्जलिः । शासिता
पालकः । महाननुभावः प्रभावो यस्यैतादृशः । असहिष्णुना सहनासमर्थेन । दूरी-
कृताः । पराजिता इति यावत् । अमरा देवा यस्मात् । यमनगरस्यातिथिः प्राघूर्ण-
कोऽकारि कृतः । हत इत्यर्थः । तेन वियोगस्तस्मादुद्भूतो यः शोकः स एव सागर-
स्वस्मिन्मना । कारुणिकोऽनुकम्पावान् । सिद्धतापसो हस्तघृतसिद्धिस्तपखी । वल्लभो
-रमणः । घनशब्दो मेघशब्दः । तस्योन्मुखी, उन्नतं मुखं यस्या इति तथा । वर्षाणां
पाठा०-१ 'विघ्नपरिहारिणि'.
 
We