2023-05-28 07:13:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

द्वितीयोच्छ्वासः दाय विधिं [^१] पददीपिकाख्यव्याख्यासहितम् ।
 
२९
 
दाय विधिं तं
दुपदिष्टं दिष्टविजयमिव विधाय पाताललोकाधी-

श्वरेण भवता भवितव्यम् । भवत्साहाय्यकरो राजकुमारोऽद्य श्वो

वा समागमिष्यति' इति तदादेशानुगुणमेव भवदागमनमभूत् ।

साधनाभिलाषिणो मम तोषिणो रचय साहाय्यम्' इति । ' तथा '

इति राजवाहनः साकं मातङ्गेन नमितोत्तमाङ्गेन विहायार्धरात्रे

निद्रापरतत्रं मित्रगणं वनान्तरमवाप । तद्नु तद्नुचराः कल्ये

साकल्येन राजकुमारमनवलोकयन्तो विषण्णहृदयास्तेषु तेषु वनेषु

सम्यगन्विष्योया [^२] न्वेक्षमाणा एतदन्वेषणमनीषया देशान्तरं चरिष्णवो-
ऽतिसहिष्णवो निश्चितपुनःसङ्गमसंकेतस्थानाः परस्परं वियुज्य ययुः ।
 

लोकैकवीरेण कुमारेण रक्ष्यमाण: संतुष्टान्तरङ्गो मातङ्गोऽपि

बिलं शशिशेखरकथिताभिज्ञानपरिज्ञातं निःशङ्कं प्रविश्य गृहीत-

ताम्रशासनो रसातलं पथा तेनैवोपेत्य तत्र कस्यचित्पत्तनस्य निकटे

केलीकाननकासारस्य वितं[^३]विततसारसस्य समीपे नानाविधेनेशशासन-

 
अश्मनो ग्राव्णः । सविधे समीपे । विधेर्ब्रह्मणः । आननं मुखम् । निक्षिप्तं स्थापि-
तम् । ताम्रशासनं ताम्रपट्टं । शासनमाज्ञा । विधातुर्ब्रह्मणः । समादाय गृहीत्वा ।
विधिं कल्पम् । तदुपदिष्टं तेन ताम्रशासनेनोपदिष्टम् । 'तदुपरिष्ठम्' इति पाठे तदुपरि

तिष्ठतीत्यसौ तम् । दिष्टमदृष्टम् तस्य विजयः । पाताललोकोऽधोभुवनम् । अधीश्वरः ।
'राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः' इत्यमरसिंहः । अनुगुणमनुरूपम्

साधनं सिद्धिमभिलषतीति तथा । तोषिण आनन्दयुक्तस्य । रचय । कुर्वित्यर्थः ।
साकमित्यव्ययं सहेत्यर्थे । नमितमुत्तमाङ्गं शीर्ष येन तेन । 'उत्तमाङ्गं शिरः शीर्षम्
' इत्यमरः । विहाय त्यक्त्वा । अर्धरात्रे निशीथे । निद्रापरतन्त्रं निद्राधीनम् ।
अनुचराः सचिवा अनुगामिनः । कल्ये प्रातःकाले । 'प्रत्यूषोऽहर्मुखं कल्यमुषः-
प्रत्युषसी अपि' इत्यमरः । साकल्येन समग्रतः । विषण्णं खिन्नं हृदयं येषां । तेषु

तेष्वखिलेषु । मनीषया बुद्ध्या । 'बुद्धिर्मनीषा धिषणा' इत्यमरः । चरिष्णवो गन्तु-
मनसः । 'अलंकृञ् –' ( ३।२।१३६ ) इतीष्णुच् प्रत्ययः । पुनः सङ्गमः पुनःसंग-
मस्तस्य सङ्केतस्थानम् । निश्चितं निर्णीतं पुनःसङ्गमसंकेतस्थानं यैस्ते । वियुज्य

वियुक्ता भूत्वा । ययुः । 'या प्रापणे' इत्यस्य लिट् ॥
 

 
लोकैकेति । लोकेष्वेकवीरः प्रधानयोधः । रक्ष्यमाणः । कर्मणि शानच् । संतु-
ष्टान्तरङ्गो हृष्टमनाः । शशिशेखरो महादेवः । अभिज्ञानं चिह्नम् । निःशङ्कं शङ्का-
रहितम् । रसातलं पातालम् । 'अधोभुवनपातालं बलिसद्म रसातलम्' इत्यमरः ।

पथा । तृतीयेयम् । पत्तनं नगरम् । 'पत्तनं पुटभेदनम्' इत्यमरः । केलीकाननं
पाठा० -

 
[^
]G. 'तदुपरिष्टम्'.
[^
]G. 'अनवेक्षमाणाः'.
[^
]G. 'विगत'.