2023-05-28 06:56:16 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२८
 
दशकुमारचरितम् । [ पूर्वपीठिकायां
 
शिलायां शयितः क्षणमतिष्ठम् । तदनु विदितोदन्तो मं[^१]मदीयवंश-
बन्धुगण: सहसागत्य मन्दिरमानीय मामपक्रान्तव्रणमकरोत् ।
द्विजन्मा कृतज्ञो मह्यमक्षरशिक्षां विधाय विविधागमतन्त्रमाख्याय
कल्मषक्षयकारणं सदाचारमुपदिश्य ज्ञानेक्षणगम्यमानस्य शशि-
खण्डशेखरस्य पूजाविधानमभिधाय पूजां मत्कृतामङ्गीकृत्य निर-
गात् । तदारभ्याहं किरातकृतसंसर्ग बन्धुकुलवर्गमृत्सृज्य सक-
ललोकैकगुरुमिन्दुकलावतंसं चेतसि स्मरन्नस्मिन्कानने दूरीकृत-
कलङ्को वसामि । देव, भवते विज्ञापनीयं रहस्यं किंचिदस्ति ।
आगम्यताम्" इति । स वयस्यगणादपनीय रहसि पुनरेनमभा-
षत – 'राजन्, अतीते निशान्ते गौरीपतिः स्वप्नसंनिहितो
-
निद्रामुद्रितलोचनं विबोध्य प्रसन्नवदनकान्ति: प्रश्रयानतं माम-
वोचत् – 'मातङ्ग, दण्डकारण्यान्तरालगामिन्यास्तटिन्यास्तीरभूमौ

सिद्धसाध्याराध्यमानस्य स्फटिकलिङ्गस्य पश्चादद्रिपतिकन्यापदप-
कि

ङ्क्ति
चिह्नितस्याश्मनः सविधे विधेराननमिव किमपि बिलं विद्यते

तत्प्रविश्य तत्र निक्षिप्तं ताम्रशासनं शासनं विधातुरिव समा-

 
महीसुरेण विप्रेण । तदनु तदनन्तरम् । विदित उदन्तो वार्ता येन तथा । अपका-
क्रान्ताश्चिकित्सिता व्रणाः प्रहारस्थानानि यस्य तादृशः । द्विजन्मा विप्रः । कृतं जाना-
तीति कृतज्ञः । अक्षराणां शिक्षोपदेशः । विविधागमेषु शास्त्रेषु तन्त्रं प्रधानम् ।
आख्याय कथयित्वा । कल्मषस्य पापस्य यः क्षयस्तस्य तस्मिन् वा कारणं निमित्त-

भूतम् । सदाचारं सद्भिरुपदर्शितं मार्गम् । ज्ञानेक्षणेन न तु चर्मचक्षुषा गम्यमान
आसाद्यः प्राप्यस्तस्य । शशिनः खण्डः कला सा शेखरोऽवतंसो यस्य तस्य ।
धूर्जटेरित्यर्थः । विधानं विधिम् । अभिधाय कथयित्वा । तदारभ्य ततःप्रभृति ।

किरातैः कृतः संसर्गो येन तथा । सकललोकानामेकं मुख्यं गुरुम् । इन्दुकला
अवतंसः शिरोभूषणं यस्य तम् । चेतसि स्मरन्ध्यायन् । काननेऽरण्ये । दूरीकृत-
कलङ्को निष्पापः । रहस्यं गुह्यम् । वयस्यगणान्मित्रमण्डलात् । अपनीय दूरं नीला ।
त्वा ।
रहस्येकान्ते । निशाया अन्ते प्रत्यूषे । गौर्याः पतिः शिवः । स्वप्ने संवेशे । संनि-
हितः संनिकर्षं प्राप्तः । निद्रया मुद्रिते निमीलिते लोचने यस्य तम् । प्रसन्ना वदन -
कान्तिर्यस्य तथा । प्रश्रयेण विनयेनानतं प्रह्वम् । अन्तरालं मध्यम् । तटिन्या

नद्याः । सिद्धाश्च साध्याश्च तैराराध्यमानस्य पूज्यमानस्य । 'पिशाचो गुह्यकः
सिद्धः', 'महाराजिकसाध्याश्च' इत्युभयत्राप्यमरः । तत्र सिद्धा देवयोनिविशेषाः,
न्याच्या
साध्या: गणदेवताः । स्फटिकलिङ्गस्य स्फटिकनिर्मितलिङ्गस्य विशिष्टाकृतेः शंकर-
शरीरस्य । अद्रिपतिर्हिमालयस्तत्कन्या पार्वती तस्याः पदपङ्ख्क्त्या चिह्नितस्य
पाठा०-

 
 
[^
]G. 'मदीयबन्धुगण:'.
 
-