2023-05-28 06:44:11 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
णान्,
लोक्य दयायत्तचित्तोऽब्रवम् – 'ननु पापाः, न हन्तव्यो ब्राह्मणः'
इति । ते रोषारुणनयना मां बहुधा निरभर्त्सयन् । तेषां
भाषणपारुष्यमसहिष्णुरहमवनिसुररक्षणाय चिरं प्रयुध्य तैरभिहतो
गतजीवितोऽभवम् । ततः प्रेतपुरीमुपेत्य तत्र देहधारिभिः पुरु
परिवेष्टितं सभामध्ये रत्नखचितसिंहासनासीनं शमनं विलोक्य
तस्मै दण्डप्रणाममकरवम् । सोऽपि मामवेक्ष्य चित्रगुप्तं नाम
निजामात्यमाहूय तमवोचत – 'सचिव, नैषोऽमुष्य मृत्युसमयः ।
निन्दितचरितोऽव्ययं महीसुरनिमित्तं गतजीवितोऽभूत् । इतः-
प्रभृति विगलितकल्मषस्यास्य पुण्यकर्मकरणे रुचिरुदेष्यति ।
पापिष्ठैरनुभूयमानमत्र यातनाविशेषं विलोक्य पुनरपि पूर्वशरीर-
मनेन गम्यताम्' इति । चित्रगुप्तोऽपि तत्र तत्र संतप्तेष्वायसस्त-
म्भेषु बध्यमानान्, अत्युष्णीकृते विततशरावे तैले निक्षिप्यमा
लगुडैर्जर्जरीकृतावयवान्, निशितट
दर्शयित्वा पुण्यबुद्धिमुपदिश्य माममुञ्चत् । तदेव पूर्वशरीरमहं
प्राप्तो महाटवीमध्ये शीतलोपचारं रचयता महीसुरेण परीक्ष्यमाण:
उद्धृत्य । वीता दया यस्य सः । जिघांस्यमानं हन्तुमिष्यमाणम् । रोषेणारुणानि
युद्धं कृत्वा । अभिहतस्ताडितः । गतजीवितोऽभवं म्रिये । प्रेतपुरीं यमनगरीम् ।
नष्टं कल्मषं पापं यस्य तस्य । 'पापं किल्बिषकल्मषम्' इत्यमरः ।पुण्यकर्मणः
लगुडैः काष्ठदण्डै: जर्जरीकृताः । अर्थात्प्रहारैः । अवयवा येषां तान् । निशिता
२७.