2023-05-18 02:09:57 by ambuda-bot
This page has not been fully proofread.
द्वितीयोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
णान्,
देकस्मिन्कान्तारे मदीयसहचरगणेन जिघांस्यमानं भूसुरमेकमव-
लोक्य दयायत्तचित्तोऽब्रवम् – 'ननु पापाः, न हन्तव्यो ब्राह्मणः'
इति । ते रोषारुणनयना मां बहुधा निरभर्त्सयन् । तेषां
भाषणपारुष्यमसहिष्णुरहमवनिसुररक्षणाय चिरं प्रयुध्य तैरभिहतो
गतजीवितोऽभवम् । ततः प्रेतपुरीमुपेत्य तत्र देहधारिभिः पुरुषः
परिवेष्टितं सभामध्ये रत्नखचितसिंहासनासीनं शमनं विलोक्य
तस्मै दण्डप्रणाममकरवम् । सोऽपि मामवेक्ष्य चित्रगुप्तं नाम
निजामात्यमाहूय तमवोचत – 'सचिव, नैषोऽमुष्य मृत्युसमयः ।
निन्दितचरितोऽव्ययं महीसुरनिमित्तं गतजीवितोऽभूत् । इतः-
प्रभृति विगलितकल्मषस्यास्य पुण्यकर्मकरणे रुचिरुदेष्यति ।
पापिष्ठैरनुभूयमानमत्र यातनाविशेषं विलोक्य पुनरपि पूर्वशरीर-
मनेन गम्यताम्' इति । चित्रगुप्तोऽपि तत्र तत्र संतप्तेष्वायसस्त-
म्भेषु बध्यमानान्, अत्युष्णीकृते विततशरावे तैले निक्षिप्यमा-
लगुडैर्जर्जरीकृतावयवान्, निशितटकैः परितक्ष्यमाणानपि
दर्शयित्वा पुण्यबुद्धिमुपदिश्य माममुञ्चत् । तदेव पूर्वशरीरमहं
प्राप्तो महाटवीमध्ये शीतलोपचारं रचयता महीसुरेण परीक्ष्यमाण:
उद्धृत्य । वीता दया यस्य सः । जिघांस्यमानं हन्तुमिष्यमाणम् । रोषेणारुणानि
रक्तवर्णानि नयनानि येषां ते । बहुधा बहुविधम् । निरभर्त्सयन् तर्जितवन्तः ।
भाषणपारुष्यं कठोरवचांसि । असहिष्णुः सोढुमसमर्थः । 'अलंकृनिराकृञ्-'
( ३ । २ । १३६ ) इतीष्णुच् । अवनिसुरो विप्रस्तस्य रक्षणाय तं रक्षितम् । अयुध्य
युद्धं कृत्वा । अभिहतस्ताडितः । गतजीवितोऽभवं म्रिये । प्रेतपुरीं यमनगरीम् ।
रत्नैः खचितं प्रत्युप्तं यत्सिंहासनं तत्रासीनम् । शमनं यमम् । 'शमनो यमरा-
ड्यमः' इत्यमरः । दण्डप्रणामं । दण्डवद्भूमौ शयित्वा प्रणाममित्यर्थः । अमात्यं
मन्त्रिणम् । निन्दितं चरितं यस्येति तथा । इतःप्रभृति इत आरभ्य । विगलितं
नष्टं कल्मषं पापं यस्य तस्य । 'पापं किल्बिषकल्मषम्' इत्यमरः ।पुण्यकर्मणः
करणे । रुचिः प्रीतिः । उद्देष्यत्युत्पत्स्यते । अतिशयेन पापाः पापिष्ठाः । 'अति-
शायने तमबिष्ठनौ' (५।३।५५ ) इतीष्ठन् । यातनाः कारणाः । ताखा यातना
इत्यर्थः । अयस इमे आयसाच ते स्तम्भास्तेषु । विततो विस्तीर्णो यः शरावः
पात्रविशेषः । 'कढई' इति भाषायाम् । तद्गते तैले स्नेहमध्ये निक्षिप्यन्ते तादृशान् ।
लगुडैः काष्ठदण्डै: जर्जरीकृताः । अर्थात्प्रहारैः । अवयवा येषां तान् । निशिता-
स्तीक्ष्णास्तेजिताष्टङ्काः पाषाणदारणास्तैः परितक्ष्यमाणान् परितस्तक्षणेन तनूक्रिय-
माणान् । पुण्या चासौ बुद्धिश्च ताम् । शीतलचासावुपचारस्तम् । रचयता कुर्वता "
२७.