2023-05-25 16:10:45 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
दशकुमारचरितम् ।
[ पूर्वपीठिकायां
Sभाषत — 'ननु मानव, जनसङ्गरहिते मृगहिते घोरप्रचारे
कान्तारे विन्ध्याटवीमध्ये भवानेकाकी किमिति निवसति ? भवदं-
सोपनीतं यज्ञोपवीतं भूसुरभावं द्योतयति हेति
रीतिरनुमीयते । कथय किमेतत्' इति । 'तेजोमयोऽयं मानुष-
मात्र
मात्रपौरुषो नूनं न भवति' इति मत्वा स पुरुषस्तद्वयस्यमुखान्ना-
मजनने विज्ञाय तस्मै निजवृत्तान्तमकथयत् – "राजनन्दन, केचि-
दस्यामटव्यां वेदादिविद्याभ्यासमपहाय निजकुलाचारं दूरीकृत्य
सत्यशौचादिधर्म
गमास्तदन्नमुपभुञ्जाना बहवो ब्राह्मणब्रुवा निवसन्ति, तेषु कस्य-
चित्पुत्रो [^२]निन्दापात्रचरित्रो मातङ्गो नामाहं सह किरातबलेन जन
निधाय तेषां सकलधनमपहरन्नुद्धृत्य वीतदयो व्यचरम् । कदाचि-
1
व्यक्तः स्पष्टः किरातस्य वनचरस्येव प्रभावो बलं यस्य । लोचनयोः परुषं कर्कशम् ।
भुजशिरः । उपनीतं गतं प्राप्तम् । भूसुरभावं विप्रत्वम् । द्योतयति प्रकटयति ।
मानुषमात्रं मानुषप्रमाणं पौरुषं पराक्रमो यस्येति तथा । 'प्रमाणे द्वयसज्दघ्न
सत्यमवितथभाषित्वम् । शौचं शुचित्वम् । आदिशब्देन दयादमक्षान्तिशान्त्यादि
जातिष्वेका जातिः । ते पुरोगमा नेतारो येषां ते । उपभुञ्जाना भक्षयन्तः ।
●
पाठा०-
[^१]G. 'हेतिततिभि:'.
[^२]G. 'निन्दामात्रचरित्रः',