2023-05-18 02:09:56 by ambuda-bot
This page has not been fully proofread.
द्वितीयोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
विपक्षं कुमारचयं गाढमालिङ्ग्य मितंसत्यवाक्येन विहिताशी-
रभ्यभाषत – 'भूवल्लभ, भवदीयमनोरथफलमिव समृद्धलावण्यं
तारुण्यं नुतमित्रो भवत्पुत्रोऽनुभवति । सहचरसमेतस्य नूनमेतस्य
दिग्विजयारम्भसमय एषः । तदस्य सकलक्लेशसहस्य राजवाहनस्य
दिग्विजयप्रयाणं क्रियताम्' इति । कुमारा माराभिरामा रामाद्य-
पौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेन
यानेनाभ्युदयाशंसं राजानमकार्षुः । तत्साचिव्यमितरेषां विधाय
समुचितां बुद्धिमुपदिश्य शुभे मुहूर्ते सपरिवारं कुमारं विजयाय
विससर्ज ।
२५
राजवाहनो मङ्गलसूचकं शुभशकुनं विलोकयन्देशं कंचिद-
तिक्रम्य विन्ध्याटवीमध्यमविशत् । तत्र हेतिहतिकिणाङ्कं काला-
यसकर्कशकायं यज्ञोपवीतेनानुमेयविप्रभाव व्यक्तकिरातप्रभाव
।
तावेव कमले तयोर्युगलं तस्मिन्मिलन्तः संयुक्ता ये मधुकरा इवाचरन्तः काकपक्षाः
शिखण्डकाः ( अर्थात् कुमाराणां ) यस्य तम् । विदलिष्यमाणा उद्धरिष्यमाणा
विपक्षाः शत्रवो येन तम् । चयं समुदायम् । गाढं निर्भरम् । मितं च सत्यं च
यद्वाक्यं तेन । 'सत्यं मृदु प्रियम्' इति सत्यशब्दप्रयोगः । विहिता आशीरा-
शीर्वादो येन सः । भवदीयानां मनोरथानामिच्छानां फलम् । समृद्धं संबद्धं लावण्यं
यस्मिन् । नुतानि स्तुतानि स्तुत्यानि वा मित्राणि येन यस्य वा सः । सहचराः
सखायः । नूनं निश्चयेन । दिशां विजयस्तस्यारम्भस्तस्य समयः कालः । सकलक्लेश-
सहस्य सत्त्वशीलसंपन्नत्वात् । दिग्विजयप्रयाणमिति । दिग्विजयं कर्तुमर्य
प्रहीयतामित्यर्थः । मारः कंदर्प इवाभिरामाः सुन्दराः । रामो दाशरथिः स आद्यो
येषां ते रामाद्यास्तेषां पौरुषं पराक्रम इव पौरुषं येषां ते । रुषा क्रोधेन भस्मी-
कृता नाशिता अरयः शत्रवो यैः । रयेण वेगेन । आवेशेनेति यावत् । उपहसितो
न्यकृतः समीरणो वायुर्यैः । रणमभियातीत्येतादृशेन । यानेन गमनेन । अभ्युदयस्य
वृद्धेराशंसा विद्यते यस्य तम् । साचिव्यं सचिवस्य भावस्तथा । इतरेषां कुमारा-
णाम् । मुहूर्ते समये । परिवारेण सहितम् । विजयाय । 'तुमर्थाच्च भाववचनात्'
( २।३।१५ ) इति चतुर्थी । विजयं कर्तुमित्यर्थः । विससर्ज विसृष्टवान् ॥
राजवाहन इति । मङ्गलं शुभोदर्क सूचयति तथा । शुभशकुनं निमित्तम् ।
अतिक्रम्य गत्वा । हेतिभिः शस्त्रैर्या हतिः प्रहारस्तस्य किणाः व्रणजचिह्नानि तेषा-
मङ्का यस्मिन् । कालायसं लोहं तदिव कर्कशः कठिनः कायो देहो यस्य स तथा ह
यज्ञोपवीतं प्रसिद्धम् । अनुमातुं योग्यो विप्रभावो विप्रत्वं यस्येति तथा ।
पाठा० - १ 'अमित'. २ 'सहनस्य'. ३ 'रामास्त्र'.
३ द० कु०