This page has not been fully proofread.

दशकुमारचरितम् । [ पूर्वपीठिकायां
 
शास्त्रनिकरचातुर्य कौटिल्य कामन्दकी यादिनीतिपटलकौशलं वीणा-
द्यशेषवाद्यदाक्ष्यं संगीतसाहित्यहारित्वं मणिमन्त्रौषधादिमायाप्र-
पञ्चचत्वं मातङ्गतुरङ्गादिवाहनारोहणपाटवं विविधायुधप्रयोगच-
णत्वं चौर्यदुरोदरादिकपटकलाप्रौढत्वं च तत्तदाचार्येभ्यः सम्यग्ल-
ब्ध्वा यौवनेन विलसन्तं कृत्येष्वनलसं तं कुमारनिकरं निरीक्ष्य म-
हीवल्लभः सः 'अहं शत्रुजनदुर्लभः' इति परमानन्दममन्दमविन्दत ॥
इति श्रीदण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथम उच्छ्रासः ।
 
M
 
२४
 
द्वितीयोच्छ्रासः ।
 
अथैकदा वामदेवः सकलकलाकुशलेन कुसुमसायकसंशयि-
तसौन्दर्येण कल्पितसोदर्येण साहसा पहसितकुमारेण सुकुमारेण
जयध्वजातपवारणकुलिशाङ्कितकरेण कुमारनिकरेण परिवेष्टितं
राजानमानतशिरसं समभिगम्य तेन तां कृतां परिचर्यामङ्गीकृत्य
निजचरणकमलयुगलमिलन्मधुकरायमाणकाकपक्षं विदलिष्यमाण-
दयः । इतिहासः पुरावृत्तकथनम् । चित्रकथा रम्यकथाः । एतैः सर्वैः सहिते
पुराणगणे ब्राह्माभ्यादिपुराणसमुदाये नैपुण्यम् । धर्मशास्त्रं स्मृतयः । शब्दशास्त्रं
व्याकरणम् । ज्योतिःशास्त्रं प्रसिद्धम् । तर्कशास्त्रं न्यायः । मीमांसा पूर्वोत्तरमेदेन
प्रसिद्धं शास्त्रम् । निकरः समूहः । कौटिल्यश्चाणक्यस्तत्प्रणीतं कामन्दकीयमिति
प्रसिद्धम् । दाक्ष्यं दक्षता । साहित्यं शिल्पं नृत्यादिकलाः । हारित्वं मनोहारित्वम् ।
मायाप्रपञ्चः कपटप्रबन्धः । चबुलं कुशलवम् । 'तेन वित्तञ्च टुप्चण पौ' ( ५१२ ।
२६ ) इति चचुप् । मातङ्गो गजः । तुरङ्गोऽश्वः । पाटवं पटोर्भावः । चणत्वं कौश-
लम् । 'तेन वित्तः - ' ( ५ ॥२॥२६ ) इति चणन् । दुरोदरं द्यूतम् । तत्तदाचार्ये-
भ्यस्तेषु तेषु शास्त्रेषु निष्णातेभ्य आचार्येभ्य इत्यर्थः । विलसन्तं शोभमानम् ।
अनलसमुद्यमशीलम् । महीवल्लभो राजा राजहंसः ॥
 
इति श्रीदशकुमारचरितपूर्वपीठिकाव्याख्यायां
पदद्दीपिकायां प्रथम उच्छ्रासः ॥
 
अथेति । सकलकलासु कुशलस्तेन । कुसुमसायकः कामः । संशयितं संशया-
कुलम् । कल्पितं रचितं सोदर्य बन्धुता । सादृश्यमिति यावत् । येन तथा । साह-
सेनापसितो घिकृतः कुमारो गुहो येन सः । जयध्वजः पताका । आतपवारणं
छत्रम् । कुलिशं वज्रम् । एतै रेखामात्रैरङ्कितौ करौ यस्य तेन । परिवेष्टितं परिवृतम् ।
आनतं शिरो यस्य तम् । अङ्गीकृत्य प्रतिपद्य । निजौ ( अर्थाद्वामदेवस्य ) चरणौ
 
पाठ० - १ 'चुबुवं', 'चाटवं', 'चतुरत्वम्'. २ 'कलशाङ्कित'. ३ 'गलनू'.