This page has not been fully proofread.

प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
c
 
ज्वालावलीढावयवा सा धरणीतले न्यपत्त् । दयाविष्टहृदयोऽहं
मन्त्रबलेन विषव्यवस्थापनेतुमक्षम: समीपकुञ्जेष्वौषधि विशेषम-
न्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयम् । तदनु तस्याः
पावकसंस्कारं विरय शोकाकुलचेता बालमेनमगतिमादाय सत्य-
वर्मवृत्तान्तश्रवणवेलायां तन्निवासाप्रहारनामधेयस्याश्रुततया तद्-
न्वेषणमशक्यमित्यालोच्य भवमात्यतनयस्य भवानेवाभिरक्षितेति
भवन्तमेनमनयम्" इति । तन्निशुम्य सत्यवर्मस्थितेः सम्यग-
निश्चिततया खिन्नमानसो नरपतिः सुमतये मन्त्रिणे सोमदत्तं
नाम तदनुजतनयमर्पितवान् । सोऽपि सोदरमागतमिव मन्यमानो
विशेषेण पुपोष ।
 
www
 
maith
 
२३
 
एवं मिलितेन कुमारमण्डलेन बालकेलीरनुभवन्नधिरूढानेक-
वाहनो राजवाहनोऽनुक्रमेण चौलोपनयनादिसंस्कारजातमलभत ।
ततः सकललिपिज्ञानं निखिलदेशीयभाषापाण्डित्यं षडङ्गसहित-
वेदसमुदायकोविदत्वं काव्यनाटकाख्यानकाख्यायिकेतिहासचित्र-
कथासहितपुराणगणनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादिसमस्त-

 
दुर्धरम् । अविषह्यमित्यर्थः । विषज्वालाभिरवलीढा व्याप्ता अवयवा यस्याः सा ।
चरणी पृथ्वी । दययाविष्टं हृदयं यस्यैतादृश. । मन्तबलेन मन्त्रसामर्थेन । अपनेतुं
दूरीकर्तुम् । कुञ्जेषु निकुञ्जेषु । 'निकुञ्जकुञ्ज वा क्लीबे लतादिपिहितोदरे' इत्यमरः ।
व्युत्क्रान्तजीविता मृताम् । तदनु ततः । पावकसंस्कारं विरच्याग्निसंस्कारं कृत्वा ।
चिताधिरोपणेन तस्याः शरीरमग्निसात्कृत्वेत्यर्थः । शोकेनाकुलं चेतो यस्य तया ।
अगतिमशरण्यम् । अनाथमित्यर्थ. । सोदरं भ्रातरम् ॥
 
एवमिति । मिलितेनैकत्र समापतितेन । कुमारमण्डलेन कुमारसमुदायेन ।
केली. क्रीडाः । अधिरूढान्यनेकवाहनानि येन सः । चौलं चोपनयनं च चौलोप-
नयने । एते आदी यस्य तत्संस्कारजातम् । चौलमुपनयनमन्यसंस्कारांश्चेत्यर्थः ।
तत्र चौलं चूडाकर्म । 'तृतीये वर्षे चौलं यथाकुलधर्म वा' इति सूत्रम् । जन्म-
प्रभृति तृतीये वर्षे कुलधर्ममाहत्यान्यस्मिन्वा केशसंनिवेशानां करणम् । उपनयनं
प्रसिद्धम् । लिपिरक्षरसंस्थानं तस्य ज्ञानम् । षडङ्गसहितस्य वेदसमुदायस्य को विदत्वं
ज्ञातृत्वम् ।" "शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गणः । छन्दसां विचितिश्चैव
षडङ्गो वेद उच्यते' इति । काव्यानि रघुवंशकिरातादीनि । नाटकानि शाकुन्तल-
रत्नावल्यादीनि । आख्यानकानि चूर्णकानि । आख्यायिकाः कादम्बरीवासवदत्ता
पाठा०-५ 'प्रत्यागच्छन्नुत्क्रान्त'.
 
*